OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 3, 2016

संस्कृतस्य वर्तमानचित्रं परिवर्तनमपेक्षते - चमू कृष्णशास्त्री।
कोच्ची> संस्कृतभाषायाः आधुनिकं मुखं  लोकाभिमुखं कर्तुम् आपादमस्तकं परिवर्तनमपेक्षते इति केन्द्र-मानवविभवशेषिमन्त्रालयस्य भाषा-उपदेष्टा तथा संस्कृतभारत्याः शिक्षणप्रमुखः च.मू कृष्णशास्त्रिवर्यः उक्तवान्। संस्कृतभाषामधिकृत्य पौराणिकसङ्कल्पनात् आधुनिक वैज्ञानिकतन्त्रस्य साङ्केतिकविद्यायाश्च अनुरूपं मुखचित्रं परिकल्पनीयमिति तेन उक्तम्। पूर्णवेदपुर्यां पण्डितरत्नस्य डो. जि गङ्गाधरन् नायर् महोदयस्य सप्ततिप्रणामसभाम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः।
    संस्कृतं पारम्पर्यरीत्या प्रपठ्य नूतनसङ्केतान् उपयुज्य भाषायाः लोकव्यापनाय उत्साहमानः क्रियावान् पण्डितश्रेष्ठो भवति डो. जि गङ्गाधरन् नायर् महाशयः इति कृष्णशास्त्रिवर्येण उक्तम्। "अमानी मानदो मान्यः"  इति भगवद्विशेषणानि तस्मिन्नपि अनुयुक्तमिति तेन प्रकीर्तितम्।
     विश्वसंस्कृतप्रतिष्ठानस्य अमृतभारती विद्यापीठस्य च संयुक्ताभिमुख्ये प्रवृत्ते सप्ततिप्रणामसमारोहे प्रोफ.तुरवूर् विश्वम्भरः अध्यक्षपदमलंकृतवान्। श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य उपकुलपतिः डो. एम् सि दिलीप् कुमारः सुवर्णवस्त्रं धारयित्वा समादृतवान्। केसरी पत्रिकायाः भूतपूर्वमुख्यसम्पादकः एम् ए कृष्णः शुभाशंसां व्याहृतवान्।