OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 4, 2018

परमोन्नतनीतिपीठे  त्रयो नूतनो न्यायाधीशाः।
       नवदिल्ली > नूतनानां त्रयाणां न्यायाधीशानां नियुक्त्यर्थं परमोच्चन्यायालयस्य समित्या दत्तः निदेशः केन्द्रसर्वकारेण अङ्गीकृतः। उत्तराखण्डस्य उच्चन्यायालयस्य मुख्यन्यायाधीशः केरलीयश्च के एम् जोसफः, तमिलनाडु उच्चन्यायालयस्य न्यायाधीशमुख्या इन्दिरा बैनर्जी , ओडीषा राज्यस्य मुख्यन्यायाधीशः विनीत् सरणः इत्येतेषां नियुक्तिनिर्देश एव सर्वकारेण अङ्गीकृतः। एषु के एं जोसफस्य नामान्तर्गतः  नियुक्तिनिर्देशः पूर्वं निरस्त आसीत्। किन्तु तस्य नाम पृथक् पुनर्निर्दिष्टमासीत्।  इन्दिराबानर्जीसहिता वनितान्यायाधीशानां संख्या तिस्रः भविष्यति। आहत्य न्यायमूर्तयः २५ भविष्यन्ति तथापि ६ स्थानानि रिक्तानि अनुवर्तन्ते।