OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 5, 2018

सामान्यावशिष्टं- चतुस्संवत्सराभ्यन्तरे वित्तकोशाः ११.५०० कोटि रूप्यकाणि दण्डितानि।
     नवदेहली> विगते चतुसंवत्सराभ्यन्तरेण राष्ट्रस्य सार्वजनिक वित्तकोशेन दण्डशुल्करूपेण ११.५०० रूप्यकाणि स्वीकृतानि इत्यावेदनम्।  वित्तलेखे सामान्यावशिष्टं न पालितम् इत्यस्य दण्डमात्रः भवति अयम्। शुक्रवासरे लोकसभायां केन्द्रधनमन्त्रालयेन निवेदितम् इदम् अावेदनम्।

   निर्धनव्यक्तीनां वित्तलेखात् स्वीकृतं भवति इदं धनम् इति गौरवं अस्ति घटनायाः। विविध सर्वकारीय अार्धिक साहायार्थम् वित्तलेखाः अवश्यकाः भवन्ति। अत एव निर्धनाः अपि तु बहवः वित्तकोशस्य वित्तलेखं स्वीकृताः अासन्।

      राष्ट्रस्य सार्वजनिक वित्तकोशः इत्यङ्कितेन  भरतीय स्टेट् बाङ्केन गते आर्थिकसंवत्सरे २,५०० कोटिरुप्यकाणि एवं दण्ड-शुल्कवत्  स्वीकृतानि।  निजीय वित्तकोशेषु   HDFC वित्तकोशेन अधिकं स्वीकृतम्। अनेन  ५९०कोटि रूप्यकाणि एवं सञ्चितानि।