OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 7, 2018

भारतीयपादकन्दुकाय ऐतिहासिकं  दिनं; पादकन्दुकराजानौ भारतेन पराजितौ।
      माड्रिड् (स्पेयिन्)/ अम्मान् > 'स्वपन् भीमः' भवति भारतीयपादकन्दुकम् इति फिफायाः भूतपूर्वाध्यक्षेण सेप् ब्लाटर् वर्येण पूर्वमुक्तमासीत्। रविवासररात्रौ तस्मिन् भीमे सुप्तोत्थिते   पादकन्दुकमण्डलस्य द्वौ शक्तौ पतितौ। ऊनविंशति वयस्कानां पादकन्दुकस्पर्धायां (अण्डर् २०) षड्वारं विश्वविजेतभूतं अर्जन्टीना राष्ट्रं तथा 'अण्डर् १७' एष्यन् विजयी इराखराष्ट्रं च भारतकौमारेण पराजिते अभवताम्।
     स्पेन राष्ट्रे सम्पद्यमाने 'ऊनविंशति कोट्टिफ्' पादकन्दुकस्पर्धायां भारतदलेन षड्वारं विश्ववीरभूतं अर्जेन्टीना दलं एकं विरुध्य लक्ष्यकन्दुकद्वयेन पराजितम्।
    तथा च अम्मान् प्रदेशे सम्पद्यमाने पश्चिमेष्या पादकन्दुकसंस्थायाः (WAFF) ऊनषोडशवयस्कानां स्पर्धापरम्परायामपि भारतस्य ऐतिहासिकविजयः।  अतिशक्तम् इराखराष्ट्रं १-० इति लक्ष्यकन्दुकक्रमेण  भारतीयकौमारशूरतया पराजितम्।