OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 12, 2018

दिनद्वयं यावत् अतिशक्तावर्षा स्यात् राष्ट्रिय दुरन्तनिवारणायोगः।
    नव दिल्ली > भारते षोडश राज्येषु दिनद्वयं यावत् अतिशक्तावर्षा स्यात् इति राष्ट्रिय दुरन्तनिवारणायोगेन (NDMA)पूर्वसूचना प्रदत्ता। उत्तराघण्डः पश्चिमवंगाः केरलं च षोडश राज्यानां पट्टिकायां सन्ति। मत्स्य बन्धनाय मा गच्छातु इति धीवराणां कृते पूर्वसूचना अस्ति। बंगाल्समुद्रस्य समान्तर भागेषु अपि वृष्टिसूचना अस्ति। ७१८ जनाः इदानीं विगतप्राणाः सन्ति। 

  केरलं तमिळ् नाड् कर्णाटकअन्ध्राप्रदेशस्य कोङ्गणभूदेशः मेघालयम् असम् अरुणाचल प्रदेशम्  ओड़ीषा जार्खण्डं  बिहारं छत्तीस्घढ् उत्तर प्रदेशम् हिमाचलप्रदेशम्‌ सिक्किम् पश्चिमवंगम् उत्तराघण्डम् इत्यत्रापि अतिशक्तया रीत्या वृष्टिः भविष्यति। सप्त राज्येषु वृष्टिदुर्भावे ७१८ संख्याकाः जनाः मृताः। ओगस्ट १५ दिनाङ्क पर्यन्तम् वृष्टिः भविष्यति इति सूचना अस्ति।