OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 10, 2018

न्या. राजेन्द्रमेनवः दिल्ली मुख्यन्यायाधिपपदं स्वीकृतवान्।
    नवदिल्ली > विश्वनीतिन्यायमण्डले स्थानमाप्तः  न्यायमूर्तिः राजेन्द्रमेनवः दिल्ली उच्चन्यायालयस्य मुख्यन्यायाधिपरूपेण कर्तव्यमग्रहीत्। दिल्ली मुख्यमन्त्रिणः अरविन्द् केज्रिवाल् वर्यस्य सान्निध्ये  राज्यपालस्य अनिल् बैजालस्य समक्षे सः शपथग्रहणमकरोत्। 
      यदा राजेन्द्रमेनवः मध्यप्रदेशस्य उच्चन्यायाधिपः आसीत् तदा भोप्पाल् वायुदुरन्तविधेयानां कृते द्विसहस्रं कोटिरूप्यकाणि नष्टपरिहाररूपेण दातुं स आदेशं कृतवान्।  वायुदुरन्तनष्टपरिहारायोगस्य अध्यक्षरूपेण पञ्चसंवत्सराणि सेवनं कृतवानयम्।  एतावत्संख्यकानां नष्ट परिहारनिर्देशः विश्वनीतिन्यायचरित्रे अत्यपूर्वघटना आसीत्। केरलदेशीयः भवति एषः।