OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 7, 2018

चीनेन निर्मितानि अध्ययनोपकरणानि कक्ष्यायाम् क्रीडनीयकानि  भवन्ति।
      कोच्ची> चीनेन निर्मितानि क्रीडनीयकानि अस्माकं विपण्यां सुलभतया लभन्ते। छात्रानुद्दिश्य निर्मितानि उपकरणपेटिकाम् अधिकृत्य भवति इदं नूतनम् अावेदनम्। छात्रैः इदानीं कक्ष्यायाम् उपयुज्यमानाः उपकरणपेटिकाः  क्रीडनीयकत्वेन परिवर्तिताः भवन्ति इति भीतिदा घटना एव। अध्ययनसमये अपि कक्ष्यायाम् उपविश्य क्रीडन्ति छात्राः। सामान्येन सर्वेषां हस्ते अस्ति ईदृशी पेटिका। चीनेन निर्मिता वा  चीनस्य आदर्शवत् निर्मिता वा भवन्ति इमाः। अस्याः उपयोगेन छात्राणां मतिः सर्वदा सर्वथा च क्रीडाज्वरे वर्तते। 
      चीनेन कृतपरोक्षयुद्धवशात् भवति   ईदृशानां वस्तूनां विपणनमिति शैक्षिकविचक्षणः
 अय्यम्पुष़ हरिकुमारः अवदत्। सर्वकारस्य श्रद्धा अस्यां घटनायां विशेषरूपेण भवतु इति  सः अभ्यर्थितवान्।