OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 13, 2018

सूर्यं स्प्रष्टुम् उद्गच्छति 'पार्कर् सोलार् प्रोब्'।

     फ्लोरिड> सूर्यं लक्ष्यीकृत्य नसा संस्थायाः पार्कर् सोलार् नाम पर्यवेषणयानं विक्षिप्तम्।  फ्लोरिड देशस्य केन्नडि भौमान्तरकेन्द्रतः आसीत् विक्षेपणम्। शनिवासरे बह्मयामे आसीत् विक्षेपणम् I 'कोरोण' इति व्यवह्रियमाणां सूर्यस्य अन्तरिक्षनिगूढतामधिकृत्य अध्ययनमेव पार्कर् सोलार् प्रोबस्य लक्ष्यम्। 'डेल्ट फोर्' नाम आकाशबाणमारुह्य आसीत् प्रोबस्य विक्षेपणम्।

    सूर्यस्य उपरितलात्‌ अष्टनवतिलक्षं किलोमीट्टर् समीपस्थे भ्रमणपथे एव प्रेटकं सूर्यं प्रदक्षिणीकरोति। एतावत् समीपस्थभ्रमणपथे जायमानम् अत्यधिकं तापमपि सोढुं शक्तं भवति पेटकम्। ग्रहाणां वातावरणे सौरवाताः कथं स्वाधीनतां कुर्वन्ति इति ज्ञातुम् अनेन प्रभवति। '१.५ बिल्यन् डोलर्' मितं धनं भवति अस्याः परियोजनायाः व्ययः।