OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 8, 2018

द्विस्तरमन्दिरं विच्छिन्नं जातम्। सर्वे रक्षां प्राप्तवन्तः।


  बाङ्गुरा> अतिशक्त्या वृष्ट्या बंगालराज्ये द्विस्तरमन्दिरं विच्छिन्नं जातम्। भाग्यवशात् अपघातात् कतिपय निमिषेभ्यः पूर्वं अन्तेवासिनः ततः  निष्कासिताः आसन् । मन्दिरं पूर्णतया समीपस्थायां जलपातायां अपतत्। जनाः स्थगिताः अभवन्।
      बंगालराज्ये बागुराजिल्लायां जनबेदियायां दुर्घटना जाता। मन्दिरस्य दुर्घटनादृश्यं समूहमाध्यमेषु इदानीं प्रचलत् वर्तते। बृहत्या वृष्ट्या मन्दिरस्य भित्तीनां क्षयं जातम्। तदेव  दुर्घटनायाः हेतुः इति वदन्ति।दुर्घटनायां कस्यापि क्षतं न अभवत्। केवलं मेई मासे द्विशताधिक-गृहाणि विच्छिन्नानिअभवत् तत्र।