OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 6, 2018

एय्रो इन्त्य बंगलूरतः परिवर्तितुम् आलोच्यते। प्रतिषेधः व्यापकः।
        बंगलूरु> एय्रो इन्त्य इति प्रस्तुतिः बंगलूरतः लख्नौ नगरं प्रति परिवर्तयितुं केन्द्रसर्वकारेण आलोच्यते इत्यावेदनं बहिरागतम्।   प्रस्तुतेः स्थानपरिवर्तनं विरुद्ध्य कर्णाटकस्य नेतारः रङ्गं प्रविष्टवन्तः प्रतिरोधमण्डले बंगलूरस्य प्राधान्यम् अस्ति। तत् मार्जयितुमुद्दिश्य भवति केन्द्रसर्वकारस्य अयं प्रक्रमः इति कर्णाटकस्य उपमुख्यमन्त्रिणा जि परमेश्वरेण आरोपितम्। 1996 तमात्  संवसरात् आरभ्य  'एय्रो इन्त्य' प्रस्तुतिः बंगलूरे सविजयं प्रचलती आसीत् इत्यपि तेन संसूचितम्।
        एय्रो इन्त्य २०१९ इति प्रस्तुतिं संबन्ध्य वेदिकानिर्णयस्य अन्तिमनिर्णयः न प्रचलिता इति प्रधिरोधमन्त्रिण्या निर्मलासीताराम महाभागयाउक्तम्।