OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 5, 2018

विश्वपिच्छकन्दुकप्रतियोगिता - पि वि सिन्धू अन्तिमचरणे।
  नान्जिङ् > विश्वपिच्छकन्दुकप्रवीणताप्रतियोगितायाः वनिताविभागस्य अन्तिमे चरणे भारतस्य पि वि सिन्धू स्पेयिन् राष्ट्रस्य करोलिना मेरिन् इत्यनया सह स्पर्धिष्यते। पूर्वान्तिमचरणे जापनराष्ट्रस्य अकाने यमागुच्ची नामिकां २१- १६, २४ - २२ इति क्रमेण पराजित्य एव अन्तिमचक्रं प्रविष्टा। 
      गतसंवत्सरे अस्यां प्रतियोगितायां जापानक्रीडकया सह स्पर्धयित्वा द्वितीयस्थानेन तृप्तिं प्राप्तवती सिन्धू रियो ओलिम्पिक्स् मध्ये अपि करोलिना मरिनेन सह स्पर्धयित्वा रजतपतकं प्राप्तवती! अतो अद्य प्रचलन्ती अन्तिमस्पर्धा रियो ओलिम्पिक्स् स्पर्धायाः पुनरावर्तनं भविष्यति!