OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, January 1, 2020

 संस्कृताभियानम् 
-प्रा. डॉ. विजयकुमार: मेनन्, 
    नमांसि, अस्माभिः संस्कृतकार्यकर्तृभिः कायेन वाचा मनसा च कार्यं करणीयम्। यस्य मनः कार्ये संलग्नं न स्यात् सः अचिरात् एव कार्यात् निवृत्तः भवेत्। अतः कार्ये मनोयोगः सर्वप्राथम्यं भजति। कायेन प्रवृत्तः अपि जनः कदाचित् वाचा अन्यविधव्यवहारमेव दर्शयेत्। सुहृदां पुरतः, अभिमानिनां पुरतः, नूतनानां पुरतः वा अपभाषणं यत् क्रियते तत् एतमेव अंशं निदर्शयति। 'एतत् कार्यमेव मम जीवितलक्ष्यम्' इति वदन्तः अपि जनः कदाचित् कायेन प्रवृत्तिं दर्शयन्ति विरलतया एव। कायेन वाचा च कार्ये प्रवृत्तानां केषाञ्चित् मनः तु अन्यदेव चिन्तयत् भवेत्। एकैकस्यापि उदाहरणानि अस्मान् परितः एव द्रष्टुं शक्यानि। मित्राणि, अतः कार्ये कायस्य वाचः मनसः च योगः सर्वदा यथा स्यात् तथा जागरूकता वोढव्या। ' सर्वेभ्यः आङ्गलनववर्षस्य नैकाः शुभकामनाः' 
 जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम्।