OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, January 24, 2020

'कोरोण' रोगव्यापनम् - चीनदेशे वुहान्‌ नगरं पिधानं कृतम्।
-के.वि.रजीष्

    नवदहली> 'कोरोण' रोगाणु प्रभवस्थानमिति संशयन्तं वुहान् नगरं प्रति गमनागमनम् अधिकृतैः प्रतिरुद्धम्। चीनदेशे कोरोणरोगेण १७ जनाः मृताः अभवन्। जनाः नगरात् बहिः मा गच्छन्तु इति अधिकृतैः निर्देशः दत्तः च। प्रदेशस्थं सर्वमपि गतागतसंविधानं आंशिककालपर्यन्तं बन्धितं वर्तते। ताय्लाण्ट्, ताय्वान्, सौत्कोरियः, जापानः, सौदि अरेब्यः इत्यादिषु राष्ट्रेषु अपि कोरोणरोगः व्याप्तः अभवत्