OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, January 31, 2020

चीनदेशस्य वुहाम्प्रदेशस्थान्  भारतीयान् शुक्रवासरे भारतम् आनेष्यति।
के.वि.रजीष्
नवदहली > चीनदेशे कोरोणरोगाणुबाधितात् वुहाम्प्रदेशात् विश्वराष्ट्राणि स्वपौरान् तत्तद्राष्ट्रं प्रति आनेतुम् आवश्यकव्यवहारान् आरभन्त। वुहाम्प्रदेशस्थान् भारतीयान् प्रायः शुक्रवासरे भारतं आनेष्यति इति भारतस्य विदेशकार्यमन्त्रालयाधिकृतैः सूचितम्। एतत्संबन्धितया निर्देशादिकं चीनदेशस्थात् भारतीयस्थानपतिकार्यालयात् वुहाम्प्रदेशस्थेभ्यः भारतीयच्छात्रेभ्यः दत्तं वर्तते। एतदर्थं सविशेषतया सज्जीकृतं विमानं श्वः चीनदेशं प्रति प्रस्थास्यति। प्रथमं वुहाम्प्रदेशात् भारतीयान् आनेष्यति, ततः परं हुबै मण्डलस्थान् भारतीयान् अपि आनेष्यति। एतदर्थं भारतसर्वकारेण भारतस्थेन चीनस्थानपतिकार्यालयेन सह सम्पर्कः अनुवर्तते च।