OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 6, 2020

अमेरिक्क-इरान् देशयोः कलहे आशङ्कां निवेद्य भारतम्।
-के.वि.रजीष्
      नवदहली> अमेरिक्क-इरान् देशयोः मध्ये सञ्जाते कलहे भारतस्य आशङ्कां   विदेशकार्यमन्त्रालयेन निवेदितम्। इरानदेशस्य विदेशकार्यमन्त्रिणा जवाद्‌ सारिफेण सह कृते दूरवाणीसम्भाषणे भारतस्य विदेशकार्यमन्त्री एस् जयशङ्कर् महोदयः विषयेऽस्मिन् भारतस्य आशङ्कां न्यवेदयत्। गतदिने अमेरिक्कस्य व्योमाक्रमणे इरानस्य सैनिकप्रमुखः खासि सुलैमानिः अन्ये पञ्च सैनिकाश्च मृताः आसन्। ततः तयोः राष्ट्रयोः मध्ये कलहः मूर्च्छितः च। विषयमिमं युद्धभीत्या एव विश्वराष्ट्राणि निरीक्षन्ते। एवमेव कलहेनानेन तैलोत्पादनमण्डले जाता समस्या भारतमपि प्रतिकूलतया बाधते इति भारतस्य पेट्रोलियं मन्त्री धर्मेन्द्रप्रधान् महोदयः अवदत्।