OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 20, 2020

जानुवारी मासस्य २६ दिनाङ्के देशभक्तान्-हुतात्मानां पवित्र-स्मृतौ
श्रद्धाञ्जलीं याचयितुं आह्वान् पिपिएफ्ए।

       गुहावती>  जानुवारी मासस्य आगामी 26 दिनाङ्के त्रिरङ्गा जातीयध्वजोत्तलनेन गणराज्य दिवसस्य पालनेन देशस्य शत-सहस्र स्वतन्त्रसंग्रामी स्वदेशप्रेमिकानां हुतात्मानानां पवित्र स्मृतौ श्रद्धाञ्जलिं याचयितुं पेट्रियटिक पिपल्स फ्रन्ट असम (पिपिएफ्ए) इत्यनेन नागरिकान् आह्वानः क्रियते। एकेन वार्ताविवृतियोगेन पिपिएफ्ए इति वदति यत् यद्यपि 1950 वर्षतः 26 जानुवारी इति दिवसं आनुष्ठानिकरूपेण अस्माकं गणराज्य गणतन्त्र दिवसं वा रूपेण स्वीकृता अस्ति, परन्तु 15 आगष्ट, 1947 वर्षस्य स्वतन्त्रता दिवसात् प्राग् बहु वर्षेभ्यः पराधीनभारतवर्षे 26 जानुवारी इत्येव दिनाङ्कं स्वतन्त्र-सङ्ग्रामीणां कृते प्रतीकिरूपेण स्वतन्त्रदिवसत्वेन स्वीकृतम् आसीत्। पराधीनभारतवर्षे अस्मिनेव दिनाङ्के देशप्रेमिणः सङ्ग्रामस्य नव-नव कार्यसूचीं शपथग्रहणम् आदि कुर्वन्ति स्म, तथा च पुर्णस्वतन्त्रतार्जनाय सङ्ग्रामे आत्मानं नयोजितवन्तः। अतः,
आस्माकं स्वतन्त्रता लब्धार्थं ये खलु पूर्वपुरुषाः करावासस्य यन्त्रणाभोगं कृत्वा, गोलिभुक्त्वा, वध्यशिलायां च स्वदेशार्थं प्राणाहुतिं दत्तवन्तः तान् महानुभावान् वीर-वीरङ्गणाः देशस्य जातीय दिवसे कृतज्ञचित्तेन सस्मरणं श्रद्धाञ्जलियाचनञ्च अस्माकं नैतिककर्तव्योSस्ति। अस्माकम् असमप्रदेशेSपि स्वतन्त्रता सङ्ग्रामस्य इतिहासः रञ्जितोSस्ति कनकलता बरुवा, मुकुन्द काकति, कुशल कोवरः, भोगेश्वरी फुकननी, तिलक डेका,कमला मिरि, निधानु राजवंशी, लेरेला बड़ो, मदन वर्मन, राउता बड़ो, मङ्गल कुर्मि, लक्षी हाजरिका, ठगी सूतः, बलोराम् सूतः, गुणाभि बरदलै इत्यादिभिः अनेकाभिः हुतात्मा-वीर-वीराङ्गणानाम् आत्मत्यागस्मृतिभिः। साम्प्रतिककाले बहुभिः व्यक्ति-गण-सङ्गठनैः 26 जानुवारी, 15 आगष्ट प्रभृतिषु जातीय दिवसेषु जातीय ध्वजोत्तलनं बिहाय बिभिन्नादि  प्रतिवाद-अभियाचनादिप्रदर्श्य दोशद्रोहपूर्वकं समाचर्यन्ते। अकृतज्ञतया एते विस्मरन्ति यत् एते खलु देशप्रेमी हुतात्मानां सङ्ग्रामेण त्यागेण वा अस्माकं स्वतन्त्रतां लब्ध्वा वयं अस्य स्वतन्त्रदेशस्य नागरिकाः बभुमः। अतः तेषां स्मृतौ वर्षस्य 365 दिवसानां केवलं दिनद्वयोः तर्पणमिति अस्माकं नैतिककर्तव्यं दायित्वं चास्ति। परन्तु, आश्चर्यस्य विषयोSस्ति यत् यद्यपि एते दूरात्मानः आन्दोलनं सांविधानिकाधिकारस्य अभियाचनार्थमस्तीति वदन्ति, परन्तु ते आन्दोलनस्य  नाम्नाजातीय दिवसेषु जातीयध्वजोत्तोलनं त्यक्त्वा संविधानस्य अपमाणकार्ये आत्मिनयोजनं कुर्वन्ति। ये खलु जनाः देशं राष्ट्रं वा प्रति मर्यदाम् एव प्रदर्शयितुं नेच्छन्ति, ते तस्यैव राष्ट्रस्य अन्तर्गतस्य सांविधानिकाधिकारयाचनं कृत्वा आन्दोलनस्य मार्गग्रहणं दुष्टबुद्धेः दुर्बुद्धेः वा परिचायकम् अस्तीति पिपिएफ्ए अनेन मन्तव्यः क्रियते।