OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, January 25, 2020

निर्वाचन-प्रत्यभिज्ञापत्रम् आधारपत्रेण सह बन्धितुं नियमनिर्माणाय भारतसर्वकारः।

   निर्वाचनायोगास्य-प्रत्यभिज्ञापत्रम् आधारपत्रेण सह बन्धितुं नियमनिर्माणाय भारतसर्वकारेण आलोच्यते। सभायां विधेयकस्य अवतारणात् पूर्वं विषयनिर्धारणसभायाः अनुज्ञायैः निश्चितम्। केन्द्रनियम-आयोगेन प्रक्रमाः समारब्धाः। निर्वाचन-प्रत्यभिज्ञापत्रम् आधारपत्रेण सह बन्धितुं निर्देशः निर्वाचनायोगेन निवेदितः।  एकस्य नाम विभिन्नेषु मण्डलेषु मतदातॄणां सूचिकायाम् भविष्यति, तद्वत् मतदानं स्यात् इत्‍यादि दोषान् परिहर्तु मुद्दिश्य भवति निर्वाचनायोगस्य निर्देशः। एतदर्थं जनप्रतिनिध्यनियमे परिकारः आवश्यकः। जनुवरी मासे ३१ दिनाङ्के आयोक्ष्यमाणेभ्यः  अर्थसङ्कल्प मेलनात् पूर्वं आमुखरूपं निर्धार्य विषयनिर्धारणसभायाः पुरतः समर्पयितुं शाक्यते इति उद्योगिनः वदन्ति।