OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, January 30, 2020

कोरोणा विषाणुना १७० चीनाः मृताः। राष्ट्रान्तरेषु ७७११ जनाः पीडिताः सन्ति।

   बैजिङ्‌> कोरोणा विषाणुः नियन्त्रणातीतः वर्तते। अनेन विषाणुना १७० चीनाः मृताः सन्ति। राष्ट्रान्तरेषु ७७११ जनाः पीडिताः सन्ति। किन्तु मृतानां सङ्ख्या इतोऽपि अधिकाः स्युः इत्याशङ्क्यते।  ११५ जनाः रोगान्मुक्तो भूत्वा आतुरालयात् गतवन्तः इति चीनस्य स्वास्थ्यमन्त्रालयेन उक्तम्। इदानीं १७ राष्ट्रेषु रोगः व्याप्तः इत्यावेदनानि सूचयन्ति। चीनस्थस्य गूगिलस्य कार्यालयाः होङ्कोङस्थः ताय्वानस्थः च कार्यालयाः च कीलिताः। माक्डाणाल्डस्य तथा अन्येषां च प्रमुखानां भक्ष्यशालानाम् अपि पिधानं कृतम् ।  विषाणु-सङ्‌क्रमणः आर्थिकमण्डलेभ्यः बाधारूपेण भविष्यति इति आर्थिकविचक्षणैः अनुमन्यते।