OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 20, 2020

परीक्षायाः अङ्कादपि जीवने मूल्यवत् सन्ति कानिचित्l परीक्षा पे चर्चायां नरेन्द्रमोदिना उक्तम्।
         नवदिल्ली> पराजयः विजयस्य प्रथमसोपानः इति चन्द्रयानं द्वे इत्यस्य उदाहरणत्वेन नरेन्द्रमोदिना सूचितः। परीक्षा पे चर्चा २०२० इति कार्यक्रमे छात्रान् प्रति भाषमाणः आसीत् सःI जीवनं केवलं परीक्षा न। परीक्षायाः अङ्कादुपरि मूल्यवत् सन्ति कानिचित् जीवने इति सः छात्रान् उपदिशत्l मेक् इन् इन्द्या इति समारंभं विजयं प्राप्तव्यम्। तदर्थं २०२२ संवत्सरानन्तरं भारतोत्पन्नानि वस्तूनि क्रेष्यामि इति निश्चयं  कर्तुं शक्यते वा?  अस्माभिः मेक्‌ इन् इन्द्या इति समारंभः प्रचोदनीयः। अयं अस्माकम् आर्थिकावस्थां शक्तं कारयेत् इत्यपि तेनोक्तम्।