OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, January 1, 2020

आधारपत्र-सम्मदिदायक-प्रत्यभिज्ञापत्रयोः परस्परबन्धनं नियममन्त्रालयस्य परिगणनायाम्।
-के.वि.रजीष्
        नवदहली> द्वित्वसम्मतिदानं दूरीकृत्य सम्मतिदायकपट्टिकायाः परिष्करणं केन्द्रनियममन्त्रालयेन उद्दिश्यते। तदर्थम् आधारपत्रस-म्मतिदायक-प्रत्यभिज्ञापत्रयोः परस्परबन्धनम् इति निर्देशः केन्द्रनिर्वाचकसमित्या केन्द्रनियममन्त्रालयं प्रति दत्तः वर्तते। बहोः कालादेव केन्द्रनिर्वाचकायोगेन एतस्मिन् विषये निवेदनं क्रियमाणं वर्तते, किन्तु निर्बन्धबुद्ध्या आधारपत्रस्य संस्थापनं न करणीयम् इति उच्चतरन्यायालयस्य शासनात् विषयेऽस्मिन् केन्द्रसर्वकारेण कोऽपि निर्णयः न स्वीकृतः। तथापि जनप्रातिनिध्यनियमं परिष्कृत्य नूतननियमनिर्माणद्वारा आधारपत्र-सम्मतिदायक-प्रत्यभिज्ञापत्रयोः परस्परबन्धनं करणीयम् इत्येव केन्द्रनिर्वाचकायोगन गते आगस्त्मासे निवेदितमासीत्। विषयेऽस्मिन् अधुना चर्चाः अग्रेसरन्त्यः वर्तन्ते इति नियममन्त्रालयात् सूचना आगता भवति। एतावता राष्ट्रे १२३ कोटि जनेभ्यः आधारपत्रवितरणं कृतं वर्तते। तेषु ३५ कोटि जनाः १८ वयसः अधः वर्तन्ते। २०१९ तमस्य वर्षस्य लोकसभानिर्वाचनवेलायां सम्मतिदायकपट्टिकायां ९० कोटि सम्मतिदायकाः आसन्। किन्तु अधुना राष्ट्रस्य जनसंख्या १३३ कोटिः भवति। एषु प्रायः १०कोटि जनेभ्यः अधुनापि आधारपत्रं न वर्तते इत्येतत् मुख्या समस्या एव।