OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, January 5, 2020

क्षौरिकस्य आपणे ग्रन्थालयः। पिपठिषुभ्यः क्षुरकर्मणि  प्रतिशतं ३० इति कर्तनशुल्के न्यूनता। 
चित्रम् - मातृभूमिः प्रादेशिकपत्रतः
    चेन्नै>पिपठिषुभ्यः क्षुरकर्मणि  प्रतिशतं ३० इति कर्तनशुल्के न्यूनता भविष्यति। चेन्नैराज्यस्थे तूत्तुक्कुटि नगरतः भवति इयं विशेषवार्ता। अस्मिन् नगरेविद्यमाने क्षौरिकस्य आपणतः (सुशील कुमार ब्यूटी सलूण्) भवति एतादृशं ख्यापनम्। क्षौरिकस्य नाम पोन् मारियप्पन् इति।  अस्य क्षौरिकापणे १००० पुस्तकानां ग्रन्थालयः वर्तते। ये ग्रन्थपठनं कुर्वन्ति तेषां कृते क्षुरकर्मणि  प्रतिशतं ३० इति कर्तनशुल्के न्यूनता भविष्यति। पठितान् ग्रन्थानधिकृत्य टिप्पणि लिखित्वा दीयते चेत् मूल्ये न्यूनता अधिकतया भविष्यति। चलदूरवाणीतः पुस्तकवाचनाय जनान् प्रेरयतुमुद्दिश्य भवति प्रक्रिया इति  पोन् मारियप्पन् महोदयेन उक्तम्। धनाभावेन अष्टम्यां कक्षायाम्  अध्ययनम्  स्तगितम्। किन्तु पुस्तकाध्यानस्य  प्राधान्यम् एषः  समीचीनतया अवगतवान्।