OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, January 30, 2020

क्रिकेट्-भारतस्य तृतीयः विजयः परम्परायाम् अजय्यता च। 
-के.वि.रजीष्
    हामिल्टण् > न्यूसिलण्ट्दलं प्रति प्रचाल्यमानायाः टि२० क्रिकेट् परम्परायाः तृतीयक्रीडायां 'सूपर् ओवर्' मध्ये भारतदलस्य विजयः। क्रिकेट् आस्वादकान् उद्‌वेगभरितान् कृतायां क्रीडायां 'सूपर् ओवर्' मध्ये १८ धावनाङ्‌कानां लक्ष्यं भारतेन क्रीडकनष्टं विना प्राप्तम्। अन्तिमकन्दुकद्वये षट्कं सम्पाद्य रोहित् शर्म (१५*) भारतविजयं सुकरम् अकारयत्। क्रीडायां प्रथमं कन्दुकताडनं कृत्‍वा भारतदलेन निश्चिते २० ओवर् मध्ये ५ क्रीडकानां नष्टेन १७९ धावनाङ्काः प्राप्ताः। भारताय रोहित् शर्म(६५), राहुलः(२७) च प्रथमसहयोगे ८९ धावनाङ्कान् प्राप्तवन्तौ। नायकः कोह्लिः(३८) उत्तमं प्रकटनं प्रादर्शयत्। प्रतिक्रीडनवेलायां  न्यूसिलण्ट्दलाय नायकः केन् विल्यम्सण् ९५ धावनाङ्कान् प्रापत्। गुप्टिलः ३१ धावनाङ्कान् प्रापत् च। अन्येषां प्रकटनं निराशापूर्णमासीत्। तेन च ६ क्रीडकानां नष्टेन १७९ धावनाङ्काः एव न्यूसिलण्ट्दलेन प्राप्ताः।  अङ्कानां तुल्यता जाता इत्यतः क्रीडा 'सूपर् ओवर्' चक्रं प्रविष्टा।  'सूपर् ओवर्' मध्ये प्रथमं क्रीडितुम् अवसरं प्राप्य न्यूसिलण्ट्दलं १७ धावनाङ्कान् प्रापत्। प्रतिक्रीडनवेलायां भारतदलेन क्रीडकनष्टं विना २० धावनाङ्कान् प्राप्य क्रीडा जिता। अनेन विजयेन भारतदलं परम्परायाम् अजय्यतां च (३-०) प्रापत्।