OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, January 11, 2020

बहुलाट्टगृहाणां नामानि एव अवशिष्यन्ते। विस्फोटकानुपयुज्य बहुलाट्टगृहाणां  धूलीकरणं भारते प्रथमतया भविष्यति।
   कोच्ची> सर्वोच्चन्यायालयस्य आदेशानुसारम् उपसमुद्रम् अधिरुह्य निर्मितस्य अट्टगृहाणां धूलीकरणम् अद्य प्रातः द्वादश (११) वादने भविष्यति। कोच्चीदेशे मरड् पञ्चायत् भागे भवति कुप्रसिद्धम् इदम् अट्टगृहम्। चत्वारि गृहाणि एवं धूलीक्रियते। विस्फोटकानुपयुज्य बहुलाट्टगृहस्य धूलीकरणं भारते प्रथमतया भविष्यति। तीरपालन-नियमान् विगणय्य निर्मितानि भवन्ति अत्रत्याः  अट्टगृहाणि। नियमान् विगणय्य किमपि न स्थास्यति इति सर्वेषां बोधवर्धनाय घटनेयं परिवर्त्यते।