OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 20, 2020

दिनोसर् जीविवर्गाणां कालतः प्राक्तनाः 'पैन्' वृक्षाः वनाग्नीतः संरक्षिताः।
    सिड्णि> ओस्ट्रेलियराष्ट्रे दुरापन्नायाः वनाग्नि-दुर्घटनायाः वोलमि इति वृक्षविशेषः संरक्षितः। दिनोसर् जीविवर्गाणां कालतः प्राक्तनः पैन् वृक्षःभवति वोलमि। विश्वे ओस्ट्रेलियायां एव अस्ति वोलमि इति पैन् वृक्षः।
    १०० वृक्षाः सन्ति अत्रत्‍येषु वनेषु I अग्निबाधायाः समये सर्वकारेण अग्निशमन-सैनिकान् उपयुज्य वृक्षाणां रक्षणाय प्रयत्नः कृतः। द्वौ विहाय ९८ वृक्षाः तैः संरक्षिताः। सिड्णि नगरात् ८० कि.मी दूरे भवति वोलमि राष्ट्रियोद्यानम्। २०० मिल्यण्‌ संवत्सरेभ्य पुरातनाः भवन्ति अत्रत्याः वृक्षाः। १९९४ तमे आसीत्‌ वृक्षस्य प्रत्यभिज्ञानम्। तदनन्तरं सर्वकारेण परिपालिताः आसन् एते विशेषवृक्षाः।