कुलगामे भीकराक्रमणं
त्रयः सि आर् पि एफ् भटाः व्रणिताः।
जम्मु> जम्मुप्रान्ते अशान्तिं सूचयन् पुनरपि भीकराणाम् आक्रमणम्। कुलगामजनपदे मिल् बसार् प्रदेशस्थे अखरान निरीक्षणस्थाने [check post] सि आर् पि एफ् सैनिकान् विरुध्य कृते भुषुण्डिप्रयोगे त्रयः सैनिकाः क्षताः। बुधवासरे अपराह्णे २.१५ वादने कयाचित् द्विचक्रिकया आगतौ द्वौ भीकरौ गोलिकावर्षं कृतवन्तौ। आहताः अनन्तनागस्थम् आतुरालयं प्रवेशिताः। द्विचक्रिका अधिगता।