सर्वकारीयमन्त्रालयानां 'कर्तव्यभवनम्' प्रति स्थानान्तरणानन्तरं, नवदेहल्याः ऐतिहासिकयोः उत्तर-दक्षिण-भवनसङ्कुलयोः ( North South block) विश्वस्य बृहत्तमं 'युगे युगीन भारत' (शाश्वतभारतम्) सङ्ग्रहालयम् स्थापयितुं केन्द्रसर्वकारेण निर्णयः कृतः अस्ति। एतदर्थं केन्द्रीयमन्त्रिमण्डलेन ३,२३० कोटिरूप्यकाणां राशिः अनुमोदिता इति केन्द्रीयमन्त्री अश्विनी वैष्णवः अवदत्।
१.७९ लक्षं चतुरस्रमीटर्-परिमिते विस्तारे (प्रायः १ लक्षं चतुरस्रमीटर्-परिमिते प्रदर्शनीक्षेत्रे) परिकल्पितः अयं सङ्ग्रहालयः विश्वस्य बृहत्तमः सङ्ग्रहालयः भविष्यति इति अधिकारिणः सूचितवन्तः। अयं पारिस्-नगरस्य लूव्र्-सङ्ग्रहालयात् (७३,००० चतुरस्रमीटर्) तथा च ब्रिटिष्-सङ्ग्रहालयात् (७०,००० चतुरस्रमीटर्) अपि विशालतरः भविष्यति।
२०२३ तमस्य वर्षस्य मेय्-मासस्य १८ दिनाङ्के प्रधानमन्त्री नरेन्द्रमोदी अस्य सङ्ग्रहालयस्य घोषणां कृतवान् आसीत्। देशस्य सभ्यतायाः निरन्तरतां विविधतां च प्रदर्शयितुम् उत्तर-दक्षिण-भवनयोः मौलिकतां (मूलाधार सौष्ठवं) वास्तुशिल्पवैशिष्ट्यानि च संरक्ष्य अयं सङ्ग्रहालयः सज्जीक्रियते। २०३०-३१ आर्थिकवर्षपर्यन्तं चरणबद्धरूपेण अस्य योजनायाः पूर्णता भविष्यति। अस्य प्रथमवीथिका २०२७ तमस्य वर्षस्य द्वितीयार्धे जनसाधारणाय उद्घाटयिष्यते इति प्रतिवेद्यते।
