भारतीयप्रौद्योगिकीसंस्थानस्य (IIT) रुड़की-स्थितस्य व्यवस्थापन-अध्ययन-विभागेन (DOMS), संस्कृतक्लब् रुड़की संस्कृतभारती-जनपद-रुड़की- संस्थभिः च संयुक्तरूपेण सोमवासरे द्विदश-दिवसीया शिक्षक-प्रशिक्षण-कार्यशाला आरब्धा। अस्याः कार्यशालायाः विषयः अस्ति – “राष्ट्रीय-पुनर्जागरणाय एकः सार्थकः प्रयासः”।
ऐ ऐ टी-रुड़की-निदेशकः डॉ॰ कमलकिशोरः पन्तः उत्तराखण्डस्य संस्कृत-शिक्षा-निदेशकः डॉ॰ आनन्दभारद्वाजः च संरक्षक-रूपेण च अस्मिन् प्रशिक्षण-कार्यक्रमे वर्तन्ते।
औपचारिक-उद्घाटन-सत्रे ऐ ऐ टी-पक्षतः श्रीमान् अनिलगौरिशेट्टी (संस्कृतक्लब-प्रमुखः), डॉ॰ रजत अग्रवालः (व्यवस्थापन-अध्ययन-विभागाध्यक्षः), डॉ॰ पवनः, डॉ॰ हेमन्तकुमारः च उपस्थिताः।
विशेषतया अस्य कार्यशालायाः चिन्तक-रूपेण ऐ ऐ टी-संस्कृतक्लबतः श्रीमान् अनिलगौरिशेट्टी, व्यवस्थापन-अध्ययन-विभागतः डॉ॰ रजतअग्रवालः, संस्कृतभारती-संस्थायाः ज्येष्ठ-कार्यकर्तारूपेण श्रीमान् नवलकिशोरः पन्तः, संस्कृतभारती-जनपद-रुड़की-कार्यकारिण्याः अध्यक्षा डॉ॰ भारतीशर्मा, जन्पदमन्त्री श्रीमती श्रद्धाहिन्दू, शिक्षणप्रमुखः आचार्यः विष्णुगौडः, पत्राचारप्रमुखः श्रीमान् पुरुषोत्तमः, सम्पर्कप्रमुखः श्रीमान् राहुलजखमोला, खण्डसहसंयोजकः डॉ॰ रामेश्वरः च सक्रियं योगदानं दत्तवन्तः।
उल्लेखनीयम् अस्ति यत् अस्याः कार्यशालायाः प्रतिभागिभिः सहयोगं विधाय यज्ञवत् सामूहिक-प्रयत्नः सफलतां यातः, अस्यां कार्याशालायां समाजस्य, प्रशासनस्य, शिक्षण-संस्थायाः च विशेषः योगदानं दृश्यते।
संस्कृतभारती-जनपद-रुड़की-अध्यक्षा डॉ॰ भारतीशर्मा अवदत् यत् प्रायः ७० प्रतिभागिनः पञ्जीकरणं कृतवन्तः, यत्र हिन्दी-संस्कृत-गणित-विज्ञान-शिक्षकाः, शोध-छात्राः, बी.एड्-अध्येतारः च अन्तर्भूताः।
जनपद-मन्त्री श्रीमती श्रद्धाहिन्दू उक्तवती यत् एषा १२-दिवसीया शिक्षक-प्रशिक्षण-कार्यशाला (Training of Teachers – T.O.T.) नाम्ना ज्ञायते, यस्याः प्रयोजनं विद्यालयेषु कार्यरत-शिक्षकान् संस्कृत-शिक्षणस्य सरल-संवादात्मक-व्यावहारिक- प्रशिक्षणं वर्तते। येन विद्यार्थिषु संस्कृतभाषायाः भारतीयज्ञानपरम्परायाः च प्रति रुचिः गर्वभावः च संवर्धितः भवेत् ।
पत्राचारप्रमुखः श्रीमान् पुरुषोत्तमः अवदत् यत् कार्यशालायाः आकर्षकं विशेषं च तत्त्वम् अस्ति यत् प्रतिदिनं प्रारम्भिक-सत्रे १२-१५ मिनिटपर्यन्तं विशेषोद्बोधनं कस्यचित् विशिष्टवक्तुः द्वारा प्रदीयते।
सम्पर्कप्रमुखः श्रीमान् राहुलजखमोला अपि उक्तवान् यत् अद्य प्रथमदिने प्रेरकं व्याख्यानं “संकल्पः एव एकमात्रः विकल्पः, संकल्पेनैव शिखरपर्यन्तम्” इति विषयेन आसीत्, यस्य फलतः प्रतिभागिषु नवीनः उत्साहः उमङ्गः च सम्प्रसारितः।
औपचारिक-उद्घाटनस्य अनन्तरं प्रशिक्षणप्रमुखेण आचार्यः विष्णुगौडेन प्रशिक्षणं विधिवत् आरब्धम्। प्रतिभागिनः अत्यन्तं उत्साहेन कार्यशालायाम् प्रतिभागं कृतवन्तः। विविधैः रोचक-क्रियाकलापैः सरल-संस्कृत-माध्यमेन च संस्कृतभाषायाः पठन-पाठनस्य प्रशिक्षणं प्राप्नुवन्ति।
एषा कार्यशाला २९ अगस्त-तिथेः पर्यन्तं प्रवर्तिष्यते। प्रतिभागिभ्यः शतप्रतिशत-उपस्थितौ प्रमाणपत्रं प्रदास्यते। संस्कृतभारती-जनपद-रुड़की-कार्यकारिण्याः संकल्पः अस्ति यत् अयम् उपक्रमः संस्कृतभाषायाः भारतीयज्ञानपरम्परायाः च विद्यालयस्तरे संवर्धनाय एकः महत्वपूर्णः चरणः सिद्ध्येत।