OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 13, 2025

 विशीर्णभवनावशिष्टानां मध्ये 

बान्धवान् मार्गमाणाः गासीयाः।

गासां प्रतिनिवृत्तमानाः गासीयजनाः।
पञ्चलक्षं जनाः प्रत्यागतवन्तः। 

गासानगरं> युद्धविरामे प्रबले जाते  गासाप्रान्तस्य बृहत्तमं नगरं नाम्ना गासासिटीं प्रति पञ्चलक्षं निवासिनः प्रतिनिवर्तिवन्तः। यत्र तेषां गृहाणि वर्तन्ते स्म, तत्र वर्तमानेषु अवशिष्टसञ्चयेषु ते तिरोभूतान्  स्वबान्धवान् अन्विष्यन्ते। 'गासा सिविल् डिफन्स् एजन्सि' इत्यस्य साह्येनैव अयं प्रयत्नः। युद्धानन्तरं ९५०० जनाः तिरोभूताः इति प्राथमिकगणना। 

  यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य २० अधिकरणात्मिकायाः अभियोजनायाः अङ्गीकारेण शुक्रवासरे आसीत् युद्धविरामः प्रवृत्तिपथमागतः।