OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 10, 2025

 शान्तिनोबेलः महिलायै समर्पयति।

मरिया कोरीना मचाडो पुरस्कृता।


स्टोक् होमः>  अस्मिन् वर्षे शान्त्यर्थं दीयमानाय नोबेलपुरस्काराय  मरिया कोरीना मचाडो नामिका मानवाधिकारप्रवर्तका अर्हा अभवत्। वेनिस्वला राष्ट्रस्य विपक्षनेत्री अस्ति मरिया कोरीना। शान्तिनोबेलपुरस्कारेण समाद्रियमाणा २० तमा महिला भवति ५८ वयस्का मरिया कोरीना। 

  वेनस्वला इति दक्षिणामेरिकीयराष्ट्रे अनुवर्तमानं लोकतन्त्रविरुद्धप्रशासनं विरुध्य २००२ तमवर्षादारभ्य मानवाधिकाराय प्रचाल्यमानस्य  संग्रामस्य नेत्री अस्ति मरिया। इदानीं निलीय एव सा प्रक्षोभं नयति। वेनस्वेलियजनतायै प्रचाल्यमानस्य प्रवर्तनस्य अङ्गीकारः एव पुरस्कारवब्धिरिति निरीक्षते।

Latest news