कासौधदुरन्तः
विश्व स्वास्थ्यसंघटनेन विशदीकरणं मार्गितम्।
मध्यप्रदेशे कासौषधसेवया मृतशिशूनां संख्या २० अभवत्।
नवदिल्ली> भारते कासमध्वौषधसेवया शिशवः मृताः विभिन्नराज्येषु कासौषधस्य निरोधः जातः च इत्यस्य आधारे केन्द्रप्रशासनं प्रति विश्वस्वास्थ्यसंघटनेन [WHO] विशदीकरणं मार्गितम्। 'कोल्ड्रिफ् सिरप्' इति कासौषधं विदेशराष्ट्राणि निर्यातं कृतं वा इत्यस्य विशदांशाः एव 'हू' संस्थया अभियाचिताः।
एतदाभ्यन्तरे मध्यप्रदेशे कासमध्वौषधसेवया मृतानां शिशूनां संख्या २० अभवत्।