शबरिगिरौ सुवर्णफलकचौर्यम् - अन्वेषणमारब्धम्।
उण्णिकृष्णन् पोट्टिम् अभिव्याप्य १० अपराधिनः।
![]() |
मन्दिरस्य द्वारपालकशिल्पेषु अन्यतमः। |
अनन्तपुरी> केरले शबरिगिरौ श्रीधर्मशास्तामन्दिरस्य द्वारपालकशिल्पस्थाः सुवर्णफलकाः अपहृताः इत्यस्मिन् प्रकरणे राज्यापराधविभागेन [Crime branch] अपराधपत्रद्वयं पञ्जीकृतम्। प्रथमापहरणं २०१९ मार्च मासे द्वितीयं तु जूलाय् मासे च सम्पन्नमित्यत एव प्रकरणद्वयं पञ्जीकृतम्।
मन्दिरशिल्पानि सुवर्णायितानि कर्तुं प्रायोजकरूपेण [sponsor] व्यवहृतवान् उण्णिकृष्णन् पोट्टी नामकः प्रकरणद्वये अपि प्रथमापराधी भविष्यति। तमभिव्याप्य १० अपराधिनः प्रथमचरणे सन्ति। इतरे तु तत्तत्कालीनाः देवस्वसंस्थाधिकारिणः भवन्ति।