OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 11, 2025

 गासा शान्तिमधिगच्छति।

गासातः इस्रयेलसेनायाः अपसरणमारब्धम्। 

गासायां युद्धनिरासस्य वार्तां श्रुत्वा आह्लादं प्रकटयन्तः बालाः। 

गासानगरं> वर्षद्वयं यावत् दीर्घितस्य रक्तप्रस्रवणस्य ५६ होराणां शान्तिचर्चा फलप्रदा जाता। ह्यः गासायां युद्धनिरासः प्रवृत्तिपथमागतः। स्थलयुद्धात् गृहं परित्यक्तवन्तः गासानिवासिनः पालस्तीनीयाः प्रत्यागन्तुमारब्धवन्तः। 

  शान्तिपुनःस्थापनं लक्ष्यीकृत्य यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेन समर्पितायाः २० अधिकरणात्मिकपरियोजनायाः प्रथमचरणं इस्रयेलेन अङ्गीकृतमासीत्। परियोजनायाम् अङ्गीकृतं  निश्चितस्थानं प्रति इस्रयेलसेना अपगता इति इस्रयेलरक्षासेनया [IDF] निगदितम्।

  सन्ध्यनुसारिण्यः व्यवस्थाः यथाकालं न पूर्तीकरिष्यन्ते चेत् इस्रयेलेन युद्धं पुनरारप्स्यते इति बञ्चमिन् नेतन्याहुः भीषामुद्घोषितवान्।