OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 13, 2025

 पाकिस्थान-अफ्गानिस्थानसंघर्षः अनुवर्तते। 

अनुरञ्जनप्रक्रमेण खत्तरः सौदी च।

इस्लामबादः> पाकिस्थान-अफ्गानिस्थानयोः सीमाप्रदेशेषु कतिपयदिनैः अनुवर्तमानस्य संघर्षस्य लाघवं न जातम्। शनिवासरे पाकिस्थानस्य सैनिककेन्द्राणि लक्ष्यीकृत्य विधत्ते आक्रमणे ५८ जनाः मृताः इति अफ्गानिस्थानस्य रक्षामन्त्रालयेन  अभिमानितम्। किन्तु २०० तालिबानीयभीकराः व्यापादिताः इति पाकिस्थानेन च निगदितम्। तेहरिक् ई तालिबान् [टि टि पी] इति निरोधितभीकरसंघटनस्य शिबिराणि प्रति एवाक्रमणं कृतमिति पाकिस्थानस्य रक्षामन्त्रालयेन  अभिमानितम्। 

  खैबर् पख्तूण् ख्व, अंगूर अडा, बजावूर्, खुरं, दिर्, चित्राल् इत्येतेषु स्थानेषु वर्तमानानि सैनिककेन्द्राणि एव अफ्गानिस्थानेन व्योमाक्रमणं विधत्तम्। कतिपयस्थानेषु आत्मघात्याक्रमणमपि कृतमिति सूच्यते। 

  सौदि अरेब्या, खत्तर राज्ययोः व्यवधानेन रविवासरस्य प्रत्युषसि आक्रमणं स्थगयितमासीत्।

  पाकिस्थान-अफ्गानिस्थानयोः सीमाप्रदेशे डूरन्ट् लैन् इत्यत्र कतिपयकालेन संघर्षः वर्तते। अतीते गुरुवासरे टि टि पी संघटनेन पाकिस्थानस्य जनाधिवासक्षेत्राणि लक्ष्यीकृत्य कृते आक्रमणे उन्नतपदीयं सेनाधिकारिणमभिव्यप्य उपत्रिंशत् जनाः मृत्युमुपगताः आसन्।