OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, October 4, 2025

 भारतीयपत्रकारकुलपतिः

टि जे एस् जोर्जः स्वर्गतः।


बङ्गलुरु> भारते पत्रकारमण्डलस्य कुलपतिः इति विशेष्यमानः टि जे एस् जोर्जः [Thayyil Jacob Sony George] बङ्गलुरु मध्ये निजीयातुरालये स्वर्गीयोSभवत्। ९७ वयस्कः सः वार्धक्यसहजास्वास्थ्येन सप्ताहं यावत् परिचर्यायामासीत्। गुरुवासरे रात्रौ सञ्जातः हृदयाघात एव मरणकारणमिति सूच्यते। 

   निर्भयपत्रकारप्रवर्तनस्य मुखमुद्रा आसीत् टि जे एस् जोर्जः। भारते विदेशे च अर्धशतकाधिककालं वृत्तान्तपत्रकाररूपेण उज्वलितः सः लेखनेन पादमुद्रया च उन्नतशीर्षः आसीत्। 'दि न्यू इन्डियन् एक्स्प्रेस्' इति पत्रिकायां Point of view नामिका वारान्तपरम्परा अनुस्यूततया २५ वर्षाणि यावत् तेन लिखिता। २०११ तमे वर्षे राष्ट्रस्य पद्मभूषणबहुमत्या सः समादृतः आसीत्।