OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 20, 2024

 बधिरायाः तनयायाः कृते हस्तसञ्चालनभाषां विना विद्यालयः, सम्प्रति सा कन्या तत्रत्याः प्रधानाचार्या अस्ति।

   श्रवणशक्तिहीनायाः तनयायाः, आयुः पूर्णतया हस्तसञ्चालनभाषाम् अधिष्ठ्य जीवितुम् अपेक्ष्यते इति ज्ञात्वा, पितरौ भाषणप्रणाल्या शिक्षां प्रदातुम् एकं विद्यालयं संस्थापितवन्तौ। इदानीं केरलराज्ये भाषणप्रणालीम् अनुसृत्य शिक्षां प्रदातुं समारब्धः प्रथमः विद्यालयः भवति अयम्। वाक्-श्रवण-परिमितिं याः प्राप्नुवन्ति तान् वाक्प्रयोगेण एव शिक्षयति अस्मिन् विद्यालये। अद्य तस्मिन्नेव विद्यालये मुख्याध्यापिका अस्ति सा कन्या। केरलराज्यस्य पालक्काट् जनपदस्य याक्करग्रामे स्थितस्य श्रवण-संवाद-महाविद्यालयस्य संस्थापकं कष़िम्ब्रं गोपिं तस्य तनयां दीप्तिं च सम्बद्ध्य एव कथ्यते अत्र। स्वस्य जातायाः दीप्त्याः श्रवणशक्तिः नास्ति इति गोपिः तस्य पत्नी शान्ताकुमार्या सह अवगच्छति। दुःखेन व्यथितोऽपि तस्यां सर्वप्रकारेण साहाय्यं प्रदातुं तौ पितरौ आस्ताम्। बधिरकन्यायाः कृते विद्यालयः तदा तस्मिन् प्रदेशे न आसीत्। अन्येषु केरलराज्यस्य विद्यालयेषु बधिरतां-मूकतां प्राप्नुवतां बालानां हस्तसञ्चालनभाषा एव प्रयुक्ता आसीत् शिक्षणाय। एवं गोपिः निनिश्चयम् अकरोत् यत् तस्याः तनयायाः जीवने हस्तसञ्चालनभाषायाः आधारः न स्यात्। 

   १९८१ तमे वर्षे यदा गोपिः विद्यालयं आरब्धवान्, तदानीं पुत्री दीप्तिः सार्धद्विवयस्का आसीत्। अद्य दीप्तिः एम.ए., पि एच् डि., बी.एड् इत्येतान् उपाधीन् संपाद्य तस्मिन्नेव विद्यालये मुख्याध्यापिका अभवत्। भारतस्य एतादृशविद्यालयेषु यः विद्यालयः त्रिषु भाषासु शिक्षां प्रददाति सः याकरग्रामस्य श्रवणसंवादमहाविद्यालयः एव इति गोपिः वदति। तत्रत्याः छात्राः हस्तसञ्चालनभाषाम् कदापि नोपयुज्यन्ते। अधुना विद्यालयेऽस्मिन्  प्राथमिकश्रेणीतः उच्चमाध्यमिकश्रेणीपर्यन्तं १०६ छात्राः शिक्षां प्राप्नुवन्ति। इदानीं ११ शिक्षकाः सन्ति। छात्राणां कृते छात्रालयसुविधा अपि अस्मिन् सर्वकार-संरक्षितविद्यालये अस्ति।