हिमाचले बस् यानस्य उपरि गिरिपार्श्वप्रपातः।
१५ मरणानि।
षिंला> हिमाचलप्रदेशस्थे बिलासपुरमित्यत्र बस् यानस्य उपरि गिरिपार्श्वप्रपातेन १५ यात्रिकाः मृताः। यानसेवकाः अपि मृतेषु अन्तर्भवन्ति। त्रयः रक्षिताः। दुर्घटनावेलायां ३५ जना बस् याने आसन्निति सूच्यते।
कुजवासरे सायम् आसीत् दुर्घटना। मृत्युसंख्या परं वर्धिष्यते। रात्रावपि रक्षाप्रवर्तनमनुवर्तते। अतीतेषु कतिपयदिनेषु राज्ये अतिवृष्टिः तदनुबन्धदुष्प्रभावश्च अनुवर्तते।