भारतस्य निर्दाक्षिण्यसूचना
मानचित्रे द्रष्टव्यं चेत् पाकिस्थानेन भीकरवादः समापयितव्यः।
नवदिल्ली> भारतेन पाकिस्थानराष्ट्रं प्रबोधितं यत् विश्वमानचित्रे स्थानमास्थापयितव्यं चेत् स्वभूमौ भीकरवादस्य प्रोत्साहनं तद्राष्ट्रेण समापयितव्यम्। राजस्थाने अनुपगढे सैनिकान् सम्बुध्यमानः भारतस्य स्थलसेनाधिपः उपेन्द्र द्विवेदिवर्यः भारतस्याभिमतं सुस्पष्टमवदत्। भविष्ये संघर्षः जायते चेत् 'ओपरेषन् सिन्दूरे' भारतेन प्रकटितं संयमनं न भवेदिति सः निश्शङ्कमुक्तवान्।