बिहारनिर्वाचने परिष्काराः अपि परीक्ष्यन्ते।
नवदिल्ली> बिहारराज्ये नवम्बर् ६, ११ दिनाङ्कयोः सम्पत्स्यमाने विधानसभानिर्वाचने नूतनपरिष्काराः अपि परीक्ष्यन्ते। २०२० तमस्य निर्वाचने सोपानत्रयमासीत्। इदानीं सोपानद्वयेन निर्वाचनं पूर्तीकर्तुमुद्दिश्यते। जनसम्मर्दं निराकर्तुं मतदानकेन्द्रेषु मतदानिनां संख्या १२०० इति निश्चिता। निर्वाचनकेन्द्रेषु 'वेब् कास्टिंग्' [Web casting] व्यवस्था कृता। एवं १७ अधिकरणेषु परिष्काराः विधत्ताः।
अशेषं राज्ये २४३ मण्डलानि वर्तन्ते। आहत्य ७. ४३ कोटि संख्याकाः मतदानिनः सन्ति। तेषु पुरुषाः ३. ९२कोटि, महिलाः ३. ५० कोटि, भिन्नलिंगाः १७२५ च सन्ति। १४. ०१ लक्षं नूतनाः मतदानिनः सन्ति।