भारत-चीनविमानसेवा अस्मिन् मासे पुनस्थापयिष्यति।
नवदिल्ली> ओक्टोबर् मासस्य अन्ते चीन-भारतयोः मिथः विमानसेवा पुनरारप्स्यते इति विदेशकार्यमन्त्रालयेन निगदितम्। लडाके नियन्त्रणरेखायां उभयोरपि सेनयोः संघर्षेण सौहृदं खण्डितमित्यतः सेवा स्थगितमभवत्। चर्चाभिः उभयसम्बन्धः इदानीं श्रेष्ठतामापद्यत। अत एव ईदृशनिर्णयः।