OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, November 22, 2017

होमियो वैद्यानां  स्वस्य चिकित्सालये औषध विक्रयणाय बाधा नास्ति।
                     कोच्ची > केन्द्र-स्वास्थ्य-कुटुम्बक्षेम-मन्त्रालयेन 'ड्रग्स् आन्ट् कोस्मटिक् आक्ट्' इति नियमः परिष्कृतः। परिष्कृत-नियमे होमियो वैद्यानां स्वस्य चिकित्सालये अन्षां वैद्यानां औषधि निर्देशानुसारं औषधविक्रयणे एव बाधा अस्ति। औषधविपणन-केन्द्रस्य अनुबन्धतया वर्तिष्यमाणे चिकित्सालये औषधविपणने भाागं कर्तुं अपि वैद्यकानां न नशक्यते। अलोप्पति औषध विपणनालये इतः आरभ्य होमियो औषधानां च विक्रयणं शक्यते। होमियो औषधनाम विक्रयणे औषध-निर्देशलेखने च वैद्याः कुमार्गं अवलम्ब्यते इति विज्ञाय एव अयं नियमः। अलोप्पति औषधविपणनालये विशेष अनुमतिं विना विक्रयणं शक्यते। किन्तु पञ्जीकृतः होमियो औषधपरिज्ञानार्जितः तस्मिन् विक्रयणकेन्द्रे निश्चयेन भवितव्यः इत्यस्ति केन्द्रमन्त्रालयस्य परिष्कृत नियम व्यवस्थायाम्॥
सिम्बाब्वे-अध्यक्षः रोबर्ट् मुगाबे त्यागपत्रम् अयच्छत् । 
         हरारे > सिम्बाब्वे-अध्यक्षः रोबर्ट् मुगाबे त्यागपत्रम् समर्पितवान् । व्यवहाराभिशम्सनारम्भानन्तरमेव त्यागपत्रं समर्पितवान् I [१९८०] अशीत्युत्तरनवशतोत्तरैकसहस्रतमवर्षाद् आरभ्य सः सिम्बाब्वे-अध्यक्षः आसीत् । सनु.पि. एफ् इति स्वदलं त्रिनवतिवयोयुक्तं मुगाबे महाशयम् अध्यक्षस्थानात् निष्कासितवत् । पश्चात् एमेष़्सण् नन्गाग्व दलनेतृत्‍वेन निर्वाचितः । मुगाबे इत्‍यस्य अनारोग्यं परिगणय्य स्वभार्या ग्रेय्स्, तस्याः सहचराश्च अधिकारं स्वायत्तीकृत्य स्वराज्यं मुष्णातुं करिष्यमाणं मोषणप्रयत्नम् अवरोद्धुमेवेति तदीयदलस्य आरोपः । मुगाबेपत्नीं ग्रेय्स् इत्यमुं च दलात् निष्कासितवन्तः । तदभ्यन्तरे यदा मुगाबे त्यागपत्रं दातुम् असनद्ध: आसीत्। तदा व्यवहाराभियोगस्य प्रारम्भं लोकसभासदस्याः स्वीकुर्वन्ति स्म।
कोच्चीमध्ये विमानं भग्नं पतितम्। 
             कोच्ची > नाविकसेनायाः पुरुषरहितविमानं निरीक्षणडयनवेलायां कोच्च्यां वेल्लिङ्टण् द्वीपे भग्नंपतितम्। इस्रायेलनिर्मितस्य विमानस्येयं दुर्घटना। यन्त्ररोगः अस्ति कारणमिति नाविकसेनायाः प्राथमिकनिर्णयः। 
          विल्लिङ्टण् द्वीपे कस्यांश्चन निजीयेन्धनसम्भरणशालायां ह्यः प्रभाते सार्धदशवादने विमानं पतितम्। शाला इन्धनरहिता आसीत् इत्यतः महान् दुरन्तः अपगतः। दशसंवत्सराणि यावत् नाविकसेनया इदं विमानं उपयुज्यमानमासीत्।

Tuesday, November 21, 2017

जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
आमुखपटले संस्कृतसाहित्य ज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता
         जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतसाहित्य-ज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता संस्कृतं जनभाषा भवेत् इति आमुखपटलसमूहे प्रति रविवासरे भविष्यति। एषा प्रतियोगिता प्रति रविवासरे रात्रौ नववादनत: सार्धनववादन पर्यन्तम् भविष्यति। प्रतियोगितायां संस्कृत-सहित्यस्य प्रश्नाः आगमिष्यति। प्रतियोगिताया: आयोजनं जगदीश: डाभी, पण्डितः दीपक: शास्त्री, अमित: ओली. मञ्जु भट्टाचार्य, डॉ. सन्ध्या ठाकुर च कृतवन्त:। पुरस्कारस्य प्रयोजक: दैनिक संस्कृत समाचारपत्रम् 'विश्वस्य वृत्तान्तम्' अस्ति। गत रविवासरे  १९/११/२०१७ तमे दिनाङ्के प्रथमा प्रतियोगितायां आहत्य २७० जनाः उपस्थिता: आहत्य च २५० जनाः उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --
प्रथम विजेता कृष्णकांत: पंचारिया, द्वितीय विजेता धीरज: शास्त्री, तृतीय विजेता राहुल: शर्मा च ।
      सर्वेभ्यः विजेतृभ्य: विश्वस्य वृत्तान्तं नाम संस्कृत-समाचारपत्रपक्षत: एक मास पर्यन्तम् ई-समाचारपत्रं निशुल्कं भविष्यति।
     आगामी द्वितीया प्रतियोगिता २६/११/२०१७ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।
तीर्थस्थानेषु GST नियमस्य बाधा अस्ति वा? 
 
     एरुमेली- केरलम्> पण्य-सेवनकरः इति यः वर्तते नियमः, सः प्रावर्तिकः सर्वत्र,  किन्तु एरुमेली तीर्थाटन केन्द्रे भोज्यवस्तूनां अधिकं मूल्यमेव दातव्यम्। परिच्छदोत्पन्नानां मूल्ये एव अनियन्त्रितवर्धनम्।  केरलात् बहिः आन्ध्राप्रदेशं कर्णाटकं तमिळ् नाट्  राज्येभ्यः तीर्थाटकाः एरुमेली देशम् आगत्य एव शबरि गिरि तीर्थाटनाय  गच्छन्ति। केरलेषु विद्यमानेषु तीर्था स्थानेषु जनानाम् आगमनस्य गणनानुसारं प्रथम स्थाने भवति शबरि-गिरी तीर्थस्थानम् । तत्रैव भवति  एतादृशाधिकधनापहरणाद्यधर्माः इति श्रद्धेयः अंशः ।
उपराष्ट्रपतिः अद्य केरले। 
कोच्ची > भारतस्य उपराष्ट्रपतिः वेङ्कय्यनायिडु महोदयः द्विदिवसीयसन्दर्शनार्थम् अद्य केरलं प्राप्नोति। उपराष्ट्रपतिस्थानारोहणानन्तरम् अस्य प्रथमं केरलसन्दर्शनं भवत्येतत्।  त्रिषु कार्यक्रमेषु उपराष्ट्रपतिः भागभागित्वं करिष्यति।  सायं चतुर्वादने कोच्चीनगरे 'इन्डियन् फिषरीस् आन्ड् अक्वा कल्चर फोरम्' सः उद्घाटनं करिष्यति।

Monday, November 20, 2017

रागिंग्-विद्यार्थिन्यः १३लक्षं दण्डितः।
पट्न> बीहारस्य धर्भंग वैद्यकलाशलायाः आतुरालयस्य प्रथम तृतीय अर्धाभागांश (semester) विभागस्य चतुर्पञ्चाशत् (५४) विद्यार्थिन्यः रागिङ्दोषेण त्रयोदशलक्षं रुप्यकाणि दण्डितानि। प्रति व्यक्तेः पञ्चविंशति सहस्रं दण्डः। अस्य मासस्य पञ्चिविंशति दिनाङ्कात् पूर्वं दण्डितशुल्कं समर्पणीयम्। नो चेत् षण्मासपर्यन्तं कलाशाला प्रवेशे बाधा भविष्यति। दोषमधिकृय सूचनानि बहिर्गता इत्यनेन आरक्षकालये न्यायव्यवहाराय सन्दर्भः च भविष्यति।
 व्यवहारास्पदा घटना एकादश दिनाङ्कात् आरब्धा। छात्रावासे प्रौढाः विद्यार्थिन्यः निर्बन्धितया माम्  अपीडयन् इत्युक्त्वा प्रथमार्धकालीनस्य विद्यार्थिनी भारतीयवैद्य आयोगास्य पुरतः व्यवहारं दत्तवती । आयोगस्य निर्देशानुसारं कलाशालाधिकारिणाः अन्वेषणम् अकुर्वन् । धटना सत्यमिति विज्ञातम्। किन्तु का दोषं कृतवती इति वक्तुं या कापि न उद्युक्ता इति एकैकां दोषिणीं पञ्च-विंशति-सहस्रं रुण्यकाणि अदण्डयत् च । तथापि घटनायाः विशदांशानि निरीक्ष्यन्ते इति आरक्षक विभागेन उक्तं च ।.
शासनपक्षनेतृत्वात् रोबर्ट् मुगाबे बहिष्कृतः। 
          हरारे > सिंबाब्वे राष्ट्रे ३७ संवत्सराणि पर्यन्तं विद्यमानः 'मुगाबेयुगः' अस्तं करोति इति सूचयन् शासनदलस्य 'सानु-पि एफ्' इत्यस्य नेतृस्थानात् राष्ट्रपतिः रोबर्ट् मुगाबे बहिः नीतः। 
     मुगाबे वर्येण बहिष्कृतः भूतपूर्वः उपराष्ट्रपतिः एमेष़सण् एम्नान् गाग्व वर्यः नेतृत्वपदे नियुक्तः। "नवयुगस्य उदयः भवत्विदानीम्। मुगाबे वर्यः कार्षिकवृत्तिं स्वीकुर्वन् कालयापनं करोतु" इत्येव दलस्य वरिष्ठनेत्रा उक्तम्।
मार्गहीनो जातः मुगाबे- राजनैतिक-दलाध्यक्षपदात् भ्रष्टः
                हरारे > सिम्बाब् वे राष्ट्रस्य सेनया अधिकारः बलाद् ग्रहीत्वानन्तरं गृहबन्धने आसीनः रोबर्ट् मुगाबे स्थानभ्रष्टः अभवत्। दलाध्यक्षपदं परित्यक्तुं गृहबन्धने आसीनः अपि सः न सज्जः। किन्तु सेनया तस्य सप्तत्रिंशत् संवत्सराणां शासनस्य अन्त्यम् कृतम् I भूतपूर्व उपाध्यक्षः एमेर्सन्  नन्गाग्व महाभागः एवभवति दलस्य नूतनाध्यक्षः। त्रिनवतिवयस्कः मुगाबे आसीत् विश्वस्य वयोधिकः राष्ट्रपतिः ।  ब्रिटन् देशतः स्वतन्त्रता प्राप्त्यनन्तरं एतावत्कालं राष्ट्रशासनम् अनेनेव कृतम् आसीत्।
इन्दिरा गान्धीमहाभागायाः धर्म: भारतीयाः सर्वे समानाः इति आसीत्  - सोणिया गन्धी ।
          नव दिल्ली> भूतपूर्व प्रधानमन्द्रिणी इन्दिरा गान्धी महाभागायाः जन्मशताब्दे ऐक्यभारत सन्देशेन सह कॉण्ग्रस् राजनैतिक-दलाध्यक्षा सोणिया गान्धी । भारतीयाः सर्वे भारत सुताः इति आसीत् तस्याः धर्मःI जाति-धर्मभेदानुसारं जनान् भेद्धुं सा कदापि न प्रयतितवती इति सोणियामहाभागया उक्तम्। भारतीयाः सर्वे समानाः इति उक्त्वा धर्मनिरपेक्षतायै प्रयतितवती । विपक्षदलस्य नेत्रा वाजपेयि महोदयः दुर्गा शक्त्याः दुर्गा इत्युक्त्वा सा इन्दिरा अभिनन्दिता।
          जन्मदिनसंवत्सरपर्वणि इन्दिरा गान्धी मेम्मोरियल् ट्रस्ट् इति संस्थया आयोजिते छायाग्राही-चित्रस्य प्रदर्शनोद्घाटनं कुर्विता भाषमाणा आसीत् सा। भूतपूर्व राष्ट्रपतिः प्रणाब् मुखर्जी, भूतपूर्व प्रधानमन्त्री मनमोहन सिंहः च भागं ग्रहीतवन्तौ ।

Sunday, November 19, 2017

काश्मीरे भीकरैः सह संघट्टनं - षट् भीकराः हताः। 
            श्रीनगरं  > जम्मु काश्मीरस्य बन्दिप्पोरा जनपदे षट् लष्कर् ई तोय्बा भीकराः सुरक्षासेनया सह संघट्टनेन हताः। व्योमसेनायाः कश्चन 'गरुड्' भटः अपि वीरमृत्युं प्राप्तः। 
    हतेषु भीकरेषु एकः पाकिस्थान् आस्थानत्वेन प्रवर्तमानस्य जमा अत्त् उद्दव नामकसंघटनस्य उपनेता अब्दुल् रह्मान् मक्कि इत्यस्य पुत्रः , २००८ तमे वत्सरे मुम्बई भीकराक्रमणस्य सूत्रधारः साक्कियूर् रह्मान् लख्वी इत्यस्य भागिनेयश्च ओवैद् नामकः भवति। हताः सर्वे भीकराः पाकिस्थानस्वदेशीयाः सन्ति। 
    व्योमसेनायाः कमान्डो विभागः भवति 'गरुड् कमान्डो बलम्'। २००४ तमे संवत्सरे रूपवत्कृतः अयं सैनिकविभागः भारतस्य  सुरक्षासैन्येन सह भीकरविरुद्धप्रवर्तनेषु अपि भागभागित्वं कुर्वन्नस्ति।
भक्ष्यविषबाधा इति सन्देहः – न्यूसिलान्टे भारतीयपरिवारः अस्त प्रज्ञावस्थायाम् आतुरालये। 
             हामिल्टण् > वन्यवराहस्य मांसं भुक्तवान् भारतीयपरिवारः अस्त प्रज्ञावस्थायां न्यूसिलान्ट् देशे आतुरालयं प्रविष्टः। केरले कोल्लं जनपदे कोट्टारक्करा नीलेश्वरं प्रदेशस्थे षिबुसदने षिबु कोच्चुम्मः [३५], पत्नी सुबी बाबुः [३२], माता एलिक्कुट्टी डानियल् [६२] इत्येते 'वैकाटो' प्रदेशस्थे आतुरालये सप्ताहं यावत् अबोधावस्थायां वर्तमानाः सन्ति। 'बोट्टुलिसं' नामिका भक्ष्यविषबाधा एव प्रज्ञानष्टस्य कारणमिति प्राथमिकनिगमनम्।
विश्वसुन्दरीपदं भारतस्य तनयायै।
              सान्य> अस्य संवत्सरस्य विश्वसुन्दरी पदं हरियाना देशीया 'मानुषी छिल्लर्' नामिकया प्राप्तम्। विश्व सुन्दरीपदमारूढासु षष्टतमा भारतीया भवति एषा ।  दीर्घाणि सप्तदशवर्षाणि यावत् प्रतिपाल्य तिष्ठन् आसीत् पुनरपि विश्वसुन्दरी-पद-प्राप्तये। चीनाराष्ट्रस्य सान्य नगरे आयोजितायं स्पर्धायां विविधेभ्यः राष्ट्रेभ्यः अष्टाधिक एकशतम् (१०८) कन्यकाः स्पर्धिताः। सर्वान् पराजित्य सुन्दरी पदं प्राप्ता  इति भारतस्य अभिमानाय अभवत्।


          विश्वे कस्य कर्मस्य अधिकनिष्कृतेः अर्हता, केनकारणेन ? इति प्रश्नस्य मानुष्याः प्रत्युत्तरे सम्प्रीताः विधिकर्तारः। षट्ष्ठ्यधिक नवशतोत्तरसहस्र (१९६६) तमे 'रीता फारिया' आसीत् भारतस्य प्रप्रथमा विश्वसुन्दरीपद-विजेता।

Saturday, November 18, 2017

सम्प्रतिवार्तायाः छात्र-शिल्पशाला समारब्धा
         कोच्ची>संस्कृत-वार्ता-वतारण-योजनायाः कृते छात्रान् सज्जीकर्तुमुद्दिश्य आयोजिता  शिल्पशाला समारब्धा। सर्व-शिक्षा अभियानस्य एरणाकुलम् उपस्तरे (BRC) ह्यः आरब्धा शिल्पशाला। सर्व शिक्षा अभियानस्य एरणाकुलं जनपदीय-कार्यक्रमाधिकारिण्या दीपा महाभागया कार्यक्रमस्य उद्घाटनं कृतम्। एरणाकुलम् उपस्तरस्य अध्यक्षा फौसिया-मल्लिशेरी-महाभागायाः आध्यक्ष्ये आसीत् कार्यक्रमः। अन्तर्जाल-माध्यमेन वार्ताप्रसाराणं क्रियमाणं विश्वस्य प्रप्रथमः कार्यक्रमः भवति अयम्। 
जनितकभिन्नतां कारयित्वा मशकान् विक्षिप्य मलेरियाव्याधिं दूरीकर्तुं भारतं सज्जं भविष्यति।
      बांग्लूरु> मलेरिया व्याधीं भारतात् निष्कासीतुं तीव्रपरिश्रमं कर्तुं भारतं सन्नद्धं भवति। मलेरिया रोगं व्यापितेषु मशकेषु 'जीन् एडिट्टिंग्' विद्यया मलेरिया' रोगाणुं निष्कासितुं परीक्षणं अत्र प्रारप्स्यते।
पुरुष अनोफलस् मशकाः मलेरिया रेगं व्यापयन्ति। तेषु जनितकव्यतियानं कारयित्वा रोगं रोद्धुं शक्यते। मशकानां अनन्तरपरम्परा अपि एतादृशगुणयुक्ताः एव भविष्यन्ति।
इतः परं सङकेतः षट् संख्या साहितं भविष्यति।
        नवदिल्ली >गृहस्य कार्यालयस्य च परं दीर्घ सङ्केतः न भविष्यति । अक्षराणि संख्याः च योजयित्वा षट् संख्यासहित सूचकं भवेत् सडकेत: । नाम, गृहनाम, प्रादेशिक मार्ग: , पत्रालयः , जनपदः च परं नावश्यकम्। आधार् व्यक्ति: परिचयाय यथा अभवत् तथा गृहस्य कार्यालयस्य च सूचकं भविष्यति।
दह्ल्यां नोयडायां च द्वयोः पत्र सङ्केतौ एवं सज्जीकृतम् ।    UV77D7 इति भवति ।

Friday, November 17, 2017

महाराष्ट्रं पलास्तिक-कूपी विमुक्त-राज्यं भविष्यति।
           मुम्बै> महाराष्ट्रं स्वच्छं भविष्यति। अचिरात् पलास्तिक-कूपी विमुक्त-राज्यं भविष्यति इति अस्यकारणम् । अस्याः योजनायाः भागतया सर्वकारेण सर्वकारीय-कार्यालयेषु पलास्तिक-कूप्यां जलमानयनं निरुद्धम्।  २०१८ मार्चमासपरिधौ सम्पूर्णतया रीत्या पलास्तिक कूपीनाम् उपयोगः परित्यक्तुं शक्यते इति परिस्थितिमन्त्री रांदास कदं अवदत्। निजीय कार्यालयेषु च पलास्तिक कूपीनां आनयनं रोद्धुमपि उद्दिश्यते। पलास्तिकानां स्थाने काकद-पटादयः उपयुज्य निर्मितेभ्यः स्यूतेभ्यः विपण्यां प्रचारं प्रदातुं प्रयत्नं क्रियते इत्यपि मन्त्री अवदत् ॥
२२००० भिषजः सत्यग्रहं कुर्वन्ति। चिकित्सां अलब्ध्वा कर्णाटकाराज्ये षट् जनाः मृताः।
                बांग्लूरु> कर्णाटकाराज्ये चिकित्सां अलब्ध्वा षट् जनाः मृताः। राज्यसर्वकार नयं प्रति सर्वकारेतर आतुरालयानां संग्रामानन्तरमस्ति अवस्था एषा सञ्जाता। एते आतुरालयाः बहिस्तान् रुग्णान् चिकित्सां न ददति। सव्वकारं प्रति द्वाविंशति सहस्रं भिषजः संग्रामं कुर्वन्ति। कर्णाटकाराज्यसर्वकारेण सर्वकारेतर भिषजां कृते चतुर्दश अधिक व्यवस्थाः निर्मिताः । तेन हेतुना अस्ति भिषजां संग्रामः। ऐ एम् ए संस्थायाः नेतृत्वे त्रिशतं भिषजः सचिवालयस्य पुरतः संग्रामं कुर्वन्ति।
 दिल्ल्यां वाहनचालकानुमतिपत्रम् खाद्यवस्तुवितरणपत्रम् प्रभृति ४० लोकसेवानां गृहेष्ववाप्ति: 
          नवदिल्ली>दिल्लीप्रसाशनेन जातिप्रमाणपत्रं वाहनचालनानुमतिपत्रं समेत्य ४० लोकसेवानां प्रतिगृहेषु प्रेषणयोजना विनिर्मितास्ति । निर्णयोsयं गुरुवासरे सञ्जाते मन्त्रिमण्डलीयोपवेशने विहत:। एतदर्थं प्राशासनिकेतर संस्थाया: निर्धारणं भविष्यति, संस्थेsयम् उपभोक्ताकेन्द्रं निर्मास्यति । राजधान्यां ३-४ मासाभ्यन्तरे एव सेवाया: उद्घाटनं भविष्यतीति सम्भाव्यते । उपभोक्तृभि: एतदर्थं सामान्यशुल्कमपि प्रदातव्यम्। योजनाया: द्वितीये चरणे ३० सेवा: संयोजयिष्यन्ते। ३० सेवा: संयोजयिष्यन्ते।
बाल भारती पब्लिक विद्यालये संस्कृतगीतोत्सवस्य भव्यायोजनम्॥
 वार्ताहर: हेमन्त जोशी 
 मुख्यातिथि: थपलियालवर्य:
                  नव दिल्ली >सर् गंगाराम-चिकित्सालय-मार्गस्थे बाल भारती पब्लिक विद्यालये समायोजिते संस्कृत-गीतोत्सव-कार्यक्रमे बालकै:  विभिन्नाधुनिक-चलचित्रगीतानि  प्राचीन-स्तोत्राणि च साभिनयं स्वर-लय-ताल-पुरस्सरं प्रगीय सम्प्रस्तूय नैजी प्रतिभा विलक्षणप्रतिभा प्रदर्शिता । कार्यक्रमस्य शुभारम्भ: दीपप्रज्वालनपूर्वकं मातु: सरस्वत्या:   वन्दनया समभवत् । तत्पश्चात् प्रधानाचार्यवर्येण मुख्यातिथये विशिष्टातिथये च  स्मृतिचिह्नम् पादपं च प्रदाय  स्वागतपूर्वकम् अतिथिसत्कार: सम्पादित:।

                   अस्मिन्नवसरे बालभारती विद्यालये  सांस्कृतिक-कार्यक्रमस्यान्तर्गतं छात्रै: छात्राभिश्च संस्कृतगीताधारितं शास्त्रीय नृत्यमपि प्रदर्शितम् । कार्यक्रमेSस्मिन् द्वितीयकक्षात:  दशमीकक्षापर्यन्तं   छात्रै: छात्राभिश्च भागो भजित:। कार्यक्रमस्य अध्यक्षता विद्यालयस्य शिखरपुरुषेण  प्रधानाचार्येण श्री लक्ष्यवीरसहगलवर्येण सम्भालिता। कार्यक्रमेSत्र मुख्यातिथिरूपेण भारतसर्वकारस्य सूचनाप्रसारण मन्त्रालयस्य अन्तर्गतं प्रसारभारत्या: अंगभूताया: आकाशवाण्या:  वरिष्ठ कार्यक्रमनिष्पादकाधिकारी  प्रधानमन्त्रिण:  'मन की बात' कार्यक्रमस्य  संचालकश्च श्रीमान् पार्थसारथी थपलियाल:  समुपातिष्ठत।

                     उपप्रधानाचार्याया: श्रीमत्या: मीना मल्होत्रावर्याया:  मुख्याध्यापिकाया:  डॉक्टर सुनीता गेहानी वर्याया: च दिङ्निर्देशे समस्तकार्यक्रमस्य आयोजनम् नितान्तभव्यतया सुसम्पन्नम्। कार्यक्रमस्य संयोजनं  मञ्चसंचालनञ्च संस्कृत-शिक्षिका डॉक्टर ज्योत्स्ना श्रीवास्तव:  व्यधात्। कार्यक्रमे  युवराजभट्टराई, दीपक-शर्मा, सुमनकुमारझा, सोमा-गांगुली, संतोष-कुमारश्चेति शिक्षकै:  सविशेषं योगदानं प्रदत्तम्।

                     कार्यक्रमस्य  अन्ते गायकस्य पङ्कजझा वर्यस्य आधुनिकसंस्कृतगीतानां सुमधुरगुंजनेन  समग्रोSपि सभागारो  मंत्रमुग्धो जात:। मुख्यातिथिना श्रीपार्थ-सारथी-थपलियाल-महाभागेन निज-सम्बोधने  विद्यालयीयसांस्कृतिकगतिविधीन्  प्रशंसता  प्राचार्य:, अध्यापकगण:  अभिभावकाश्च सफलकार्यक्रमस्य  आयोजनार्थम् भृशं वर्धापिता:।
हिमाधिक्येन शीघ्रगमन-मार्गे ३० वाहनानि घट्टितानिI १८ जनानां मृतिः ।
बेय्जिङ्> कठिनहिमवातेन  चीनादेशस्य शीघ्र-गमनमार्गे उप त्रिंशत् (३०) वाहनानि मिथः घट्टितानि। पूर्व चीनादेशस्य अन् हुयि प्रविश्यायाः फुयाङ् नगरे बुधवासरे अतिप्रभाते एव आसीत् इयं दुर्घटना। दुर्घटनायां अष्टादश (१८)जनाः मारिताः एक विंशति जनाः क्षतजाः च। एतान् समीप स्थान् आतुरालयान् प्रविशन्l  दुर्घटनायां प्रविष्टेषु यानेषु अग्निबधा अभवत्। उप विंशति अग्निशमना वाहनानि मिलित्वा कृतेन कर्मेणा होरा त्रयाणान्तरमेव अग्निः रोधनाय अशक्यत

Thursday, November 16, 2017

श्री श्री रविशङ्करः योगिना सह चर्चां कृतवान् - अद्य अयोध्यां सम्प्राप्नोति। 
          लख्नौ > बाबरी मस्जिद् - रामजन्मभूमि तर्कपरिहाराय माध्यस्थ्यं वोढुं स्वयमेव सिद्धः जीवनकलाचार्यः श्रीश्री रविशङ्करः उत्तरप्रदेशमुख्यमन्त्रिणा योगि आदित्यनाथेन सह चर्चां कृतवान्। लख्नौ मध्ये मुख्यमन्त्रिणः औद्योगिकभवने आसीत् अर्धहोरापर्यन्तं चर्चा। अयोध्या प्रकरणे चर्चया रूपीक्रियमाणः समवायः वा न्यायालयविधिः वा यत् उपपाद्यते ततदस्माभिः माननीयमिति यू पि सर्वकारस्य अभीप्सितिः। प्रश्नपरिहार एव स्वस्य लक्ष्यं,  वैयक्तिकं किमपि प्रयोजनं नाभिलषतीति रविशङ्कर् महोदयेनापि स्पष्टीकृतम्। किन्तु रविशङ्करस्य माध्यस्थप्रयत्नः वि एछ् पि संघटनेन सन्देहेन वीक्ष्यते।
सिम्बाब्वे राष्ट्रे सैन्य नियन्त्रितशासनं - राष्ट्रतिः मुगाबे गार्हिकबन्धने।
            हरारे > सिम्बाब्वे राष्ट्रे राष्ट्रपति 'रोबर्ट् मुगाबे' सैनिकैः गृहे बन्धितः। नवत्रिंशत् (९३) वयस्कः एषः इदानीं सुरक्षितः इति सैनिकवक्त्रा उक्तम्। मुगाबे महोदयं परितः विद्यमानाः अधार्मिकाः राष्ट्रं नाशयन्ति। तान् प्रति लक्षीकृत्य एव क्रियाविधयः आजोजिताः इत्युक्त्वा 'मेजर् जनरल्' 'मोयो' दूरदर्शन-वाहिन्यां प्रत्यक्षः अभवत्।
पूर्वस्मिन् वासरे चीनदेश सन्दर्शान सन्दर्भे सिंबाब्वे राष्ट्रस्य  सैनिकाध्यक्षः 'कोण्स्टान्टिनो चिवेन्कः' शासनदलेषु शेधाय सज्जीकरणं क्रियते इति अवदत्। गतवासरे बहिर्त्यक्तः उपराष्ट्रपतिः 'एमेर्सन् नन्गाग्व महोदयं राष्ट्रपति पदे प्रतिष्टातुं प्रयन्नः प्रचलति इति पाश्चात्यदेशस्य वार्तामाध्यमानि आवेदयन्ति।
अन्तरिक्षमलिनीकरणेन  क्लिश्यते-१५०० कोटि सञ्चिचितधननं न उपयुज्यते।
       नवदिल्ली> राष्ट्रराजधानी कठिनवायुप्रदूषणेन क्लेशः अनुभूयते तथापि प्रदूषित-परिहाराय आकलितं पञ्च-शताधिकैकसहस्रं(१५००) रुप्यकाणि (हरिताश्वासधनं) नव दिल्ली सर्वकारेण नोपयुक्तानि इति वार्ता बहिरागच्छति।  दिल्यां आगतवत्द्भ्यः भारवाहनेभ्यः आकलितानि भवन्ति एतानि धनानि। सर्वोच्च न्यायालयस्य आदेशानुसारमेव आकलनं प्रचायाल्यते। परिस्थिति-दोषपरिहारधनं, प्रतिलिट्टर् अग्नितैलस्यकृते स्वीकृतं अधि-मूल्यं च अस्मिन् सञ्चिचितनिधौ अन्तर्भवति।
         दक्षिण दिली नगर पालिका द्वारा आकलितं इदं धनं वाहनविभागस्य कृते दीयते इति PTI संस्थया आवेदितम्। वायुप्रदूषण निरोधाय २००७ दिसंबर् मासे षीलादीक्षित् महाभागया अग्नितैलाय अतिमुल्य-स्वीकार सम्प्रदायः आयोजितः I

Wednesday, November 15, 2017

GST- अद्य आरभ्य भक्ष्यशालायां भक्ष्यमूल्यं न्यूनं भविष्यति
            अनन्तपुरी> पण्यसेवन करः एकीकृतः इत्यनेन अद्य आरम्भ भक्ष्यालयेषु मूल्यं न्यूनंभाविष्यति। नवम्बर् मासस्य एकादश (१५) दिनाङ्कादारभ्य एकीकृत करः एव स्वीकर्तव्यः इति  पण्य सेवनकर-आयोगेन गत सप्ताहे मेलनं कृत्वा निश्चितः आसीत्। जि एस् टि प्रवेशानन्तरं वायु-शीतीकृत-भक्षयशालायां १८% अन्येषां १२% च आसीत् करप्रकारः। किन्तु भक्ष्यवस्तूनां वर्धितमूल्येन जनानां विप्रतिपत्ति विज्ञाय एव करप्रकारे पुनरालोकनं कृतम्। आयोगस्य निश्च्यानुसारं भक्ष्यवस्तुना सह अन्येषां वस्तूनां करः २८तः १८ % इति परिवर्तितः। चाक्कलेयं, केशफेनकं, स्वास्थ्य-पानीयाः, सौन्दर्यवर्धकवस्तूनि, हस्त घटी, काफी, विद्युत् कोशः च न्यूनमूल्यीकृतेषु अन्तर्भवन्ति।