शबरिगिरिः - वादप्रतिवादः पूर्णः।
शबरिगिरि मन्दिरम्।
नवदिल्ली> केरले शबरिगिरिः धर्मशास्तृमन्दिरे युवतीप्रवेशं सम्बन्धेषु अभियाचनेषु सर्वोच्चन्यायालये वादप्रतिवादः पूर्णं विधाय विध्युद्घोषणाय कल्पितः। मुख्यन्यायाधिपस्य सूर्यकान्तस्य अध्यक्षत्वे नवाङ्गोपेतेन नीतिपीठेन १६ दिनानि दीर्घिताः वादप्रतिवादाः श्रुताः। अभियाचिकाकाराणां विशदानि वादमुखानि विलिख्य समर्पितुं मेय् २९ दिनाङ्कपर्यन्तं कालः अनुज्ञितः।
वयोभेदं विना शबरिगिरिमन्दिरे महिलाभ्यः प्रवेशः दातव्यः इति २०१८ तमे वर्षे सर्वोच्चन्यायालयस्य पञ्चाङगोपेतपीठेन विहितमासीत्। एतं विरुध्य समर्पिताः याचिकाः पूर्णनीतिपीठं प्रति समर्पिताः। तस्मिन् वादप्रतिवाद एव पूर्तीकृतः। जूलैमासात्परं विधिः भविष्यतीति मन्यते।