मणिप्पुरे संघर्षः अनुवर्तते।
त्रयः धर्मनेतारः हताः, ३८ जनाः बद्धाः।
इम्फालं> मणिप्पुरराज्ये कुकी-नागविभागयोः संघर्षः तीव्रतरा वर्तते। गते बुधवासरे काङ् पोक् पि जनपदे त्रयः क्रैस्तवधर्मनेतारः अक्रमिणां भुषुण्डिप्रयोगेण हताः। तदनन्तरं राज्ये कुकी-नागविभागयोः संघर्षः तीव्रतरः अभवत्। उभावपि परस्परं ग्रामीणान् बन्धनस्थान् अकुरुताम्। उभयोरपि विभागयोः उपचत्वारिंशत् जनाः बन्धनस्थाः जाताः। अनिष्टघटनाः अपाकर्तुं केन्द्र - राज्यसुरक्षासेनाः विन्यस्ताः।