सप्तमी श्रीमद्भगवद्गीता पाक्षिक-राष्ट्रियसंगोष्ठी सम्पन्ना।
वार्ताहरः डॉ॰ अम्बरीशमिश्रः।
प्रत्येकादशि समायोज्यमाना राष्टियसंगोष्ठी अप्रैलमासस्य द्वितीयदिनाङ्के संस्कृतविभाग-भाषासाहित्यभवन-गुजरात-यूनिवर्सिटी- अहमदाबाद- गुजरात, राजकीय-महिला-महाविद्यालय-डी.एल. डब्ल्यू. वाराणसी, चातुर्वेद-संस्कृत-संस्थानम्-काशी इत्येतेषां संयुक्ततत्त्वावधाने "विश्वसंस्कृतकुटुम्बकम्" आमुखपटले सप्तमी" एकादशी श्रीमद्भगवद्गीता पाक्षिकराष्ट्रीय-व्याख्यानसंगोष्ठी सकुशलं सम्पन्नाऽभूत्! अस्यां संगोष्ठ्यां विशिष्टवक्तार: डॉ॰ कनैया ठाकरमहोदया: गीतायां नैतिकमूल्यानि" विषयमधिकृत्य गभीरं चिन्तनम् अल्पैनैव शब्देन समुद्घाटितम्। मुख्यवक्तार: सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य वेदान्तविभागप्रमुखा:, कुलसचिवा श्चाचार्यरामकिशोरत्रिपाठिन: आसन्!



















