OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, March 23, 2023

 काञ्चीपुरे प्रस्फोटकनिर्माणशालायां दुरापन्ने स्फोटने अष्टजनाः मृताः। २४ जनाः व्रणिताः। 

  चेन्नै> काञ्चीपुरे प्रस्फोटकनिर्माणशालायाम् दुरापन्ने स्फोटने अष्ट जनाः मृताः। चत्वारिंशत् जनाः व्रणिताः। बुधवासरे१२.३० वादने एव अपघातः दुरापन्नः। पञ्च जनाः घटनास्थले मृतिमुपगताः। त्रयः जनाः चेङ्कल्पेटे सर्वकारातुरालये परिचर्यावेलायां मरणमुपगताः। प्रस्फोटकनिर्माणसम्बन्धिनः बहवःसामग्र्यः सम्भरणशालायाम् आसन्। अग्निव्यापनस्य कारणम् अज्ञातमस्ति। पञ्च सम्भरणशालाः प्रदेशे सन्ति। चत्वारिंशत् कर्मकराः अत्र सेवननिरताः आसन्।