OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, March 20, 2023

 संस्कृतभारत्याः पण्डितरत्नपुरस्कारः स्वप्रभानन्दस्वामिने, शर्माजी पुरस्कारः टि . सि. सजीवाय च समर्पयिष्यते

वार्ताहरः - डा. पि. के. शङ्करनारायणः

    ज्ञानेन तपसा सुव्यक्तेन मार्गदर्शनेन च सर्वेषां सज्जनानाम् आदरपात्रं भवति पूजनीयः स्वप्रभानन्दस्वामिपादः। अरुणापुरस्थस्य श्रीरामकृष्णाश्रमस्य अध्यक्षः श्रीरामकृष्णसंस्कृतमहाविद्यालयस्य प्राचार्यः च आसीत्, इदानीं तिरुवनन्तपुरस्थिते श्रीरामकृष्णाश्रमे वसन् संस्कृतसेवानिरतः अयं महात्मा। पूजनीयाय स्वामिपादाय अस्य संवंत्सरस्य पण्डितरत्नपुरस्कारं संस्कृतभारत्या दीयते। संस्कृतप्रचारकार्यनिरताय शिक्षकवर्याय सजीव‌् टी सी महाशयाय (गवण्मेन्ट् हयर् सेकेन्टरी स्कूल् एरुमप्पेट्टि) शर्माजीपुरस्कारः अपि दीयते। पुरस्कारसमर्पणम् एप्रिल् मासस्य ३० तमदिनाङ्के कोल्लं महानगरे सम्पत्स्यमाने संस्कृतभारत्याः राज्यवार्षिकसम्मेलने भविष्यति इति पुरस्कारसमित्यङ्गैः महामहोपाध्यायः डा. गङ्गाधरन् नायरः पण्डितरत्नं डा. पि. के. माधवः. डा. इ एन् ईश्वरः इत्येतैः उक्तम्।