OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 26, 2023

 राहुलगान्धी सदस्यपदात् निष्कासितः। 

कारागारबद्धोSपि प्रजाधिपत्याय युद्धं करिष्यामीति राहुलः। 

नवदिल्ली> २०१९ तमे वर्षे निर्वाचनकाले कर्णाटकस्य कोलार् प्रदेशे आयोजिते सम्मेलने मोदिनामकं धर्मसमाजं स्वभाषणेन अपकीर्तीकृतवान् इत्यस्मिन् प्रकरणे वर्षद्वयं यावत् कारागृहदण्डनं विहितः राहुलगान्धी लोकसभासदस्य पदात् निष्कासितः। शुक्रवासरे लोकसभायाः सचिवमुख्यः उत्पल्कुमारसिंहेन एव आदेशः विज्ञापितः। नीतिसंधानस्य १०२(१)ई अनुच्छेदानुसारं तथा च प्रजाप्रातिनिध्यनियमस्य अष्टमव्यवस्थानुसारं च अयं प्रक्रम‌ इति आदेशे स्पष्टीकृतम्। 

  अनेन उपरिनीत्पीठात् यदि विधितिरस्कारः न लप्स्यते तर्हि अष्ट वर्षाणि यावत् राहुलः निर्वाचनेषु स्पर्धितुम् अयोग्यः भविष्यति। 

  किन्तु गतदिने स्वदलास्थाने समायोजिते पत्रकारसमेमेलने राहुलगान्धी केन्द्रसर्वकारंं प्रधानमन्त्रिणं नरेन्द्रमोदिनं च तीव्रभाषया विमृष्टवान्। यदि कारागारे बद्धः भविष्यति तर्हि प्रजाधिकारयुद्धात् प्रतिनिवर्तनं न भविष्यतीति राहुलः उक्तवान्। तदर्थं स्वस्य संग्रामः अनुवर्तिष्यते इति तेनोक्तम्।