OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 3, 2023

सप्तमी श्रीमद्भगवद्गीता पाक्षिक-राष्ट्रियसंगोष्ठी सम्पन्ना।

वार्ताहरः डॉ॰ अम्बरीशमिश्रः।

     प्रत्येकादशि समायोज्यमाना राष्टियसंगोष्ठी अप्रैलमासस्य द्वितीयदिनाङ्के संस्कृतविभाग-भाषासाहित्यभवन-गुजरात-यूनिवर्सिटी- अहमदाबाद- गुजरात, राजकीय-महिला-महाविद्यालय-डी.एल. डब्ल्यू. वाराणसी, चातुर्वेद-संस्कृत-संस्थानम्-काशी इत्येतेषां‌ संयुक्ततत्त्वावधाने "विश्वसंस्कृतकुटुम्बकम्" आमुखपटले सप्तमी" एकादशी श्रीमद्भगवद्गीता पाक्षिकराष्ट्रीय-व्याख्यानसंगोष्ठी सकुशलं सम्पन्नाऽभूत्! अस्यां संगोष्ठ्यां‌ विशिष्टवक्तार: डॉ॰ कनैया ठाकरमहोदया: गीतायां नैतिकमूल्यानि" विषयमधिकृत्य गभीरं चिन्तनम् अल्पैनैव शब्देन समुद्घाटितम्। मुख्यवक्तार: सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य‌ वेदान्तविभागप्रमुखा:, कुलसचिवा श्चाचार्यरामकिशोरत्रिपाठिन: आसन्!

आचार्यत्रिपाठिमहाभागा: तात्त्विकविवेचनप्रसङ्गे पुरुषार्थचतुष्टयसम्पन्नाय गीताया महतीं भूमिकां प्रतिपादितवन्त:। ते चोक्तवन्त: कस्यापि शास्त्रे‌ शास्त्रत्वसम्पादनं‌ तदैव यदा तत्र पुरुषार्थचतुष्टयसम्पन्नाय सामर्थ्यं भवति। संगोष्ठ्या सभाध्यक्षा प्रो‌. मयूरी भाटिया आचार्या गुजरातयुनिवर्सिटी, स्वकीयाध्यक्षीयोद्बोधने‌ विशिष्टवक्तृमुख्यवक्त्रो: व्याख्यानसारांशं‌ मधुरगिरा निगदितवती।

सर्वादौ‌ राजस्थानतः आचार्यविमलेशसुखवालेन वैदिकमङ्गलाचरणं प्रस्तुतम्। मध्यप्रदेशतः तृतीयकक्षाच्छात्र: आयुष्मान्प्रतीकशर्मा गीताश्लोकपाठं कृतवान्। संयोजकः डॉ॰ चन्द्रकान्तदत्तशुक्लवर्यः समेषामतिथीनां स्वागतं व्याजहार। गोष्ठ्याः सकुशलं सञ्चालनं गुजरातयुनिवर्सिटीतः डॉ॰ अतुल उनागरः सम्पादितवान्। धन्यवादविज्ञापनं संस्कृतविभागाध्यक्षा राजकीय-महिलामहाविद्यालयः डी.एल.डब्ल्यू.वाराणसीतः संयुक्तसंयोजिका प्रो.रचनाशर्मा सम्पादितवती। अन्ते शुभकामनासन्देशं पठितवान् डॉ॰ प्राङ्गेशकुमारमिश्रः। संगोष्ठ्यां‌ नैके विद्वांसः, संयोजकाः, आयोजकाः, परामर्शकाः, शोधार्थिनः श्रोतार: समुपस्थिता आसन्। विशेषेण प्रो.कमलेशकुमारचौकसी, प्रो.शुभलक्ष्मीत्रिपाठी-प्राचार्या, प्रो.हेतलपण्ड्या, प्रो.उमाशंकरत्रिपाठी, प्रो.गीता श्रीवास्तवा, प्रो.मञ्जूलता शर्मा, डॉ॰ शैलेशतिवारी, डॉ॰ गीताशुक्ला, डॉ॰ सविता भारद्वाज, डॉ॰ मणिशंकरद्विवेदी, डॉ॰ मनीषशुक्लः, रविशंकरशर्मा, तेजप्रकाशः, रामप्रतापमिश्रः, परमहंसतिवारी, डॉ॰ आभाद्विवेदी, डॉ॰ सन्ध्या ठाकुर, अखिलेशकुमार, अनन्याश्रीवास्तवा, महकमौर्या, अखिलानन्द उपाध्यायः, प्रिया विश्वकर्मा, रोशनः, हृदयांशः, रविशंकरशर्मप्रभृतयो नैके जिज्ञासवः समुपस्थिताः आसन्।