OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 26, 2023

 सर्वेषु मण्डलेषु स्त्रियः शक्तिं समार्जितवत्यः - मन की बात कार्यक्रमे प्रधानमन्त्रिणा उक्तम्।

   प्रधानमन्त्रिणः नरेन्द्रमोदिनः 'मन की बात' नाम मासिकीय आकाशवाणी कार्यक्रमे तेन उक्तं यत् सर्वेषु मण्डलेषु स्त्रियः शक्तिं समार्जितवत्यः इति। कार्यक्रमस्य एकोन शततमं प्रसारणम् आसीत् इदम्।  

  भारतस्य संवर्धने महिलानां महती भूमिका वर्तते। ते प्रत्येकस्मिन् क्षेत्रे स्वकौशलं सिद्धयन्ति। नागालैण्ड्देशे ७५ वर्षेभ्यः परं प्रथमवारं विधानसभायां द्वे महिले आगतवत्यौ इति प्रधानमन्त्री अवदत्।

   अस्माभिः संयुक्तराष्ट्रसङ्घस्य नियोगे अन्तर्गतायां शान्तिसेनायां महिलानां मण्डलम् एकं प्रेषितम् आसीत्। भारतस्य क्षमतां नूतनस्तरं प्रति नेतुम् महिलानाम् उपलब्धयः महत्त्वपूर्णाः सन्ति इत्यपि नरेन्द्रमोदिना स्मृतम्।  

  २०१४ तमस्य वर्षस्य विजयदशमी-दिने (अक्टोबर्-मासस्य ३ दिनाङ्के) आरब्धस्य 'मन की बात'-कार्यक्रमस्य ९९ तमे प्रकरणे आसीत् प्रधानमन्त्रिणः महिलां प्रति ईदृशी सहयोग प्राप्तिः तदीयं वचश्च।