OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, March 24, 2023

 अपकीर्तिकरपरामर्शः - राहुलगान्धी संवत्सरद्वयं दण्डितः। 

दण्डविधिं साक्षात् श्रुत्वा सूरत् न्यायालयात् दिल्लीं प्राप्तः राहुलगान्धी प्रवर्तकान् अभिवादयति। 

अहम्मदाबादः> २०१९ तमे संवत्सरे निर्वाचनकाले आयोजिते एकस्मिन् सम्मेलने कृते तस्य भाषणे 'मोदि' इति धर्मसमाजम् अपकीर्तीकृतमिति प्रकरणे कोण्ग्रसः नेता राहुलगान्धी गुजरातस्य सूरत् नीतिपीठेन वर्षद्वयं   यावत् कारागारदण्डः विहितः। पुनर्विचारयाचिकायै दण्डः ३० दिनानि यावत् स्थगयित्वा तस्मै  प्रातिभाव्यम् अनुमोदितम्। 

  संवत्सरद्वयस्य दण्डविहितेन राहुलगान्धिनः लोकसभासदस्यत्वं अनिश्चितं वर्तते। यदि  उपरिन्यायालयात्  पूर्णतिरस्कारः न लप्स्यते तर्हि जनप्रातिनिध्यनियमानुसारं वयनाट् मण्डलात् लब्धं सदस्यत्वं विनष्टं भविष्यति। उपरिन्यायालयं प्रति  दण्डविमुक्ताभियाचिकां समर्प्य अनन्तरप्रक्षेपान् करिष्यतीति कोण्ग्रस् दलस्य नेतृभिः निगदितम्।