OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 26, 2023

 मिसिसिप्पि राज्ये चक्रवातः। २५ जनाः मृताः। 

    शुक्रवासरे रात्रौ दुरापन्ने अतिशक्ते चक्रवाते २५ जनाः मृत्युमुपगताः। मृतानां संख्या इतोऽपि वर्धिता स्यात् इत्यस्ति प्रतिवेदनम्। चक्रवातस्य दुष्प्रभावेन 'कार्'-यानानि पक्षिवत् उड्डयितानि। अन्यानि वाहनानि गृहाणि वृक्षाः च नाशिताः। विद्युद्बन्धः विनष्टः। चक्रवातेन भारवाहनान्यपि हर्म्याणाम् उपरि क्षिप्तानि इति प्रचरितैः चित्रैः  दृश्यन्ते। अमेरिक्कस्य राष्ट्रपतिना जो बैडनेन दुरन्तबाधितेभ्यः साहाय्यं करिष्ये इति उक्तम्। चक्रवातस्य अधिकं दुष्प्रभावम् अनुभूतं नगरं रोलिङ्फोर्क् भवति। सामान्येन यत्रकुत्रापि विद्युद्बन्धः नास्ति। तस्मात् समागताः दृश्यखण्डाः दुरन्तस्य व्याप्तिं बोधयति।  भग्नावशिष्टानाम् अधः बहवः जनाः निरालम्बाः लग्नाः  स्युः इति प्रतिवेदितमस्ति।